________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 7t नूनमेष महाभागो देव एव न संशयः // ततः कृत्वा नरेन्द्रेण ललाटे करकुङ्मतम् / म पृष्टो भगवानेवं कस्त्वं भो नाथ कथ्यताम् // मुनिरुवाच / यतिरस्मि महाराज न देवो नापि दानवः / विशेषयतिरूपं तु लिङ्गादेवावगम्यते // धवचराजेनोकं / यद्येवं किमिदं नाथ विहितं भवताहृतम् / ईदृशं रूपनिर्माणं पूर्व बीभत्मदर्शनम् // कृष्णवर्णादयो दोषा निजदेहविवर्तिनः / अस्माकं भवतादिष्टाः किं वा संचिन्य कारणम् // कथं वा क्षणमात्रेण दिव्यरूपधरः परः / भगवान्नाथ संपन्नो मादृशां छत विसायः // तदिदं मे प्रसादेन म नाथ निवेदय / ममोत्पलं मनोमध्ये महदत्र कुबहलम् // मुनिराह महाराज कृत्वा मध्यस्थमानसम् / कथ्यमानमिदं सर्वं ममाकर्णय साम्प्रतम् // इदं विरचितं पूर्व मया रूपं नरेश्वर / निदर्शनार्थं जीवानां संसारोदरवर्तिनाम् // यत: एवं भूता इमे सर्व जौवाः संमारवर्तिनः / तथापि न विजानन्ति खरूपं मूढमानसाः // For Private and Personal Use Only