________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 737 तदेव दारिद्र्यकरं विज्ञेयं स्वमङ्कटम् // यस्योदरं भवेत्तुल्यं सिंहव्याघ्रशिखण्डिनाम् / तथैव वृषमत्स्यानां भोगभोगी म मानवः / / वृत्तोदरोऽपि भोगानां भाजनं किल गोयते / शूरो निवेदितः प्राज्ञैर्मण्डकसमकुक्षिकः // गम्भौरा दक्षिणावर्ता नाभिरुक्तेह सुन्दरा / वामावर्ता च तुङ्गा च नेष्टा लक्षणवेदिभिः // विशालमुवतं तुङ्ग स्निग्धलोमशमार्दवम् / वक्षःस्थलं भवेद्धन्यं विपरीतमतोऽपरम् // कूर्मसिंहाश्वमातङ्गसमपृष्ठाः सुशोभनाः / उद्दद्धबाहवो दुष्टा दामास्तु लघुवाहवः / / प्रलम्बवाहवो धन्याः प्रशस्ता दीर्घबाहवः / अकर्मकठिनौ हस्तौ विज्ञेयाः पादवन्नखाः // दौर्घा मेषममः स्कन्धो निमांसो भारवाहकः / मामलो लक्षाज्ञानां लघुस्कन्धो मतः किल // कष्टो दुःखकरो ज्ञेयः कृशो दौर्धश्च यो भवेत् / स कम्युनिभः श्रेष्ठो वलित्रयविराजितः // लघ्वोष्ठो दुःखितो नित्यं पौनोष्ठः सुभगो भवेत् / विषमोष्ठो भवेशीरर्लम्बोष्ठो भोगभाजनम् // शुद्धवाः समाः शिखरिणो दन्ताः स्निग्धा घनाः शुभाः / विपरीताः पुनर्जया नराणां दुःख हेतवः // द्वात्रिंशद्रदनो राजा भोगी स्यादेकहीनकः / 93 For Private and Personal Use Only