________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 712 उपमितिभवप्रपञ्चा कथा / विवेकित्वं / अहो मय्यनुग्रहपरता / अहो दृष्टपरमार्थतेति / विज्ञातश्च मया सर्वस्यास्य भगवद्भाषितस्थ गर्भार्थः / ततोऽभिहितमनेन / भदन्त यादृशं लोके संपन्नं ते कुटुम्बकम् / अधन्यास्तादृशं नूनं प्राप्नुवन्ति न मादृशाः // इदं च पोषयन्नत्र जैनलिङ्ग च मंस्थितः / भदन्त भगवानेव ग्रहस्थो भवतीदृशः / अन्यच्च / कृताकिञ्चित्करौ येन रसनापि महात्मना / अत्यन्तदुर्जया लोके लोलता च निराकृता // महामोहादिवर्गच जिवा यो जैनमत्पुरे। स्थितोऽसि माधुमध्यस्थः कुटुम्बमहितो मुने // स चेत्त्वं न भवस्यत्र हन्त दुष्करकारकः / कौदृशास्ते भवन्त्यन्ये ब्रूहि दुष्करकारकाः // यश्चायं तव संपन्नो वृत्तान्तो जगदद्भुतः / एतद्वत्तान्तयुक्ता ये ते वन्द्याः प्रतिभान्ति मे // तद्भदन्त किमेतेषां माधूनामयमोदृशः / संपन्न एव वृत्तान्तः किं वा नेति निवेद्यताम् // ततो विचक्षणेनोनं सर्वेषामयमौदृशः / साधनां भूप संपन्नो वृत्तान्तो नास्ति मंशयः // अन्यच्च / संपद्यते तवापोह वृत्तान्तोऽयं नरेश्वर / For Private and Personal Use Only