________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / अन्येषामपि म स्वामी प्रायेणान्तरभुजाम् // किंबहुना। म सर्वसमुदायात्मा सुन्दरेतरनायकः / श्रयं तदेकदेशात्मा तदादेशविधायकः // तथाहि। येऽन्तरङ्गजनाः केचिदिद्यन्ते सुन्दरेतराः / म कर्मपरिणामाख्यस्तेषां प्रायः प्रवर्तकः // यावन्ति चान्तरङ्गाणि निति नगरौं विना / पुराणि तेषु स स्वामी बहिरङ्गेषु भावतः // अयं पुनर्महामोहो यावन्तोऽत्र विलोकिताः / भवता भूभुजः स्वामी तदादेशेन तावताम् // यदेष निजवौर्येण किंचिदर्जयते धनम् / समर्पयति तत्तस्य निःशेषं नतमस्तकः // अनेनोपार्जितस्योच्चैर्धनस्य विनियोजनम् / स राजा कुरुते नित्यं सुन्दरेतरवस्तुषु // अयं हि विग्रहारूढः सदास्ते विजिगीषया / म त भोगपरो राजा न जानात्येव विग्रहम् // एवं च स्थिते / एष वत्म करोत्याज्ञां भकिनिर्भरमानसः / तस्य किं तु ततो भिन्नं नात्मानं मन्यते नृपः // अन्यच्च / यदृष्टं भवता पूर्व महामोहपुरदयम् / For Private and Personal Use Only