________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1
अभावो नचिराद्भावी नूनं तस्य, नहीदृशाम् । प्रकृतीनां विपर्यासा जायन्ते स्वर्गिणोऽन्यथा ॥ ४८ ॥ भाविदिव्यर्द्धिविरहक्लिष्टं नष्टशुभक्रियम् । तस्योपदेशदानेन मया कृत्यं मनः सुखि ॥ ४९ ॥ fear विभावरी तत्र, विभाते विनिवृत्य च । कुशलानुष्ठितिः कार्या ममाप्यायुर्यतस्तनु ॥ ५० ॥ मय्यनुग्रह बुद्धा त्वं हारं चन्द्रातपाभिधम् । दुरितानोकहद्रोणी कुठारमुररीकुरु ।। ५१ ।। किलैष मथनस्यान्ते क्षीरोदेन हरेर्गृहम् । आश्रयन्त्यै श्रिये दत्तः कण्ठकाण्डस्य मण्डनम् ॥ ५२ ॥ जयन्तजन्मनि प्रीत्या, पुलोमदुहितुस्तया । उपनीतश्चिरं चक्रे तयापि स्तनमण्डले, ॥ ५३ ॥ ततः प्रियसुन्दर्या मत्प्रियायाः समर्पितः । सरखीप्रेम्णा, तयाऽप्येष प्रमोदाद्विधृतश्विरम् ॥ ५४ ॥ अवगच्छता धर्मे तां नियुज्य सुकर्मणि । कण्ठे कृत्वा मयानीतस्तद्वियोगविनोदनम् ॥ ५५ ॥ प्रथमप्रार्थनाभङ्गो न विधेयोऽधुना मम । यद्दूरीभूत एवायमनाप्तेऽपि त्वयाऽधुना ॥ ५६ ॥ मनुजेष्वासम्भूते कदाचिच करोत्यसौ । दृष्टेरिष्टां सुधासृष्टि, सृष्टो येन ममेष्टया ॥ ५७ ॥ देव्याः प्रियसुन्दर्याः सञ्जाते मानुजे भवे । यद्वाऽवलोकितः कुर्यादेष पुण्यक्रियोद्यमम्. ॥ ५८ ॥ भवतापि भवत्येवमुपकारः कृतो महान् " । इत्युक्त्वा सोऽर्पयामास हारं स्वात्कण्ठकन्दलात्. ॥ ५९ ॥ परोपकार व्यसनी ततीकृत्य करद्वयीं । जग्राह तं महीशोऽपि सोऽपि देवस्तिरोदधे ॥ ६० ॥ प्रविश्याथ चिरं स्तुत्वा युगादिपुरुषोत्तमम् । गेहं जगाम, चक्रे च श्रियः सायन्तनार्चनम् ॥ ६१ ॥ जगाद च - " भवद्भक्तेरनुभावोऽयमीदृशाम् । स्वर्गिणामपि यद्यान्ति मादृशा माननीयताम् ॥ ६२ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir