SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततः सविस्मया देवी काञ्चीराजतनूद्भवाम् । अपृच्छद् "आर्ये ! कि पूर्व कुमारेणायमीक्षितः ?"॥९०८॥ सा प्रत्युवाच-" वृत्तान्तं वेभि नाहमिमं सखि ! । कुमारमेव पृच्छ त्वं " ततश्चाहमवादिषम् ,- ॥ ९०९ ॥ " न केवलमयं, देवि ! त्वमप्येतत्प्रसादतः । दृष्टा मया." इत्यथावोचं वृत्तं चित्रपटोद्भवम् ॥ ९१० ॥ गन्धर्वकमपृच्छं च, “तदास्मत्सभिधेर्भवान् । उत्थाय व गत्वोद्देशे क्व स्थितः ? किं विलम्बितम् ? ॥९११॥ प्रादुर्भूतः कुतो वाद्य विद्युदुन्मेषवत्क्षणात् ? " । इति पृष्टः स निःश्वस्य साश्रु वक्तुं प्रचक्रमे,- ॥ ९१२ ।। " तस्मिन्नेवान्हि सायाह्ने कुमार ! भवदन्तिकात् । गतखिकूटेकूटस्थां खेचराधिपतेः पुरीम्, । ९१३ ।। विचित्रवीर्यमद्राक्षं, विमानं हारिचन्दनम् । प्रापं घमत्तुयात्रार्ह याचितं पत्रलेखया, ॥ ९१४ ॥ लेखं समरकेतोश्च वहन् बद्धं पटाञ्चले । गन्धर्वदत्तावीक्षार्थमापतमुत्तरां दिशम्. ।। ९१५॥ श्रुत्वा प्रशान्तवैराख्यतापसाश्रमसन्निधौ । करुणाक्रन्दितारावमन्तरिक्षादवातरम्. ॥ ९१६ ॥ अपश्यं चाश्रुधाराभिरकालजलदागमम् । कुर्वाणां रमणीमेकामीषद्गलितयौवनाम्. ॥ ९१७ ॥ ततोऽपृच्छं "किमित्यार्ये ! करोषि परिदेवनम् ? "। साऽवादीत् “ कुरु मे त्राणमपत्यप्राणरक्षणात् , ॥ ९१८ ॥ सर्वस्वभूता निःशेषदक्षिणाधिपतेरियम् । पुत्री गन्धर्वदत्ताया नाम्ना मलयसुन्दरी ॥९१९ ।। वैरिभिर्विगृहीतेन किमप्याधाय चेतसि । समर्प्य मे त्रियामार्दै पित्रा निष्कासिता पुरात्, ॥९२० ॥ विधृता चाश्रमेऽमुष्मिम्, स्थिता वल्कलधारिणी । ॥९२१॥ किश्चित्कालम् , इह त्वद्य प्राप्ता केनापि हेतुना । मार्गयन्त्येयं मया दृष्टा, निर्भानुषयोदयात् ॥ ९२२ ॥ For Private and Personal Use Only
SR No.020832
Book TitleTilak Manjari Kathasar
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherVirchand Prabhudas Pandit
Publication Year1919
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy