________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
86
तैत्तिरीयसंहिता.
का. १. प्र.७.
भुवनसदमिन्य जुष्टं गृह्णाम्येष ते योनिरिन्द्रीय त्वोपयामगृहीतोस्यप्सुषदै त्वा घृतसदै व्योमसदमि
न्य जुष्टै गृह्णाम्येष ते योनिरिदम् । भुवनसमिति भुवन-सदम् । इन्द्राय । जुष्टम् । गृह्णामि । एषः । ते । योनिः । इन्द्राय । त्वा । उपयामगृहीत इत्युपयाम-गृहीतः। असि । अप्सुषदमित्य॑प्सु-सदम् । त्वा । घृतसमिति घृत-सदम् । व्योमसमिति व्योम-सदम् । इन्द्राय । जुष्टंम् । गृह्णामि । 'एषः । ते। योनिः । गृहीतोसीति हे ग्रह त्वा त्वां नृषदं नृषु प्रजासु सीदति स्थित्यर्थं तेषां नृषत् । एवमुत्तरत्र । सुषामादित्वात्पत्वम्, 'संदिरप्रतेः' इति वा सविषयं द्रष्टव्यम् । द्रुपदं 'वनस्पतयो वै द्रु'* । भुवनसदं भुवनं सर्वभूतजातम् । इन्द्राय जुष्टं प्रियं गृह्णामीति व्याख्यातप्रायम् ॥
गृहीत्वा यथायतनं सादयति-एष ते योनिः कारणं इन्द्राय त्वा सादयामि । व्याख्यातमेव ॥ ___-द्वितीयम्-उपयामगृहीतोसीति ॥ त्वा वामप्सुषदम् । 'तत्पुरुषे कृतिबहुलम्' इत्यलुक् । अन्नादीनामुत्पादकतया तत्र सीदतीति । 'अग्नौ प्रास्ताहुतिस्सम्यक्' इत्यादि । शेषं समानम् ॥
*बा. १-३-९,
सं. १.४.१२.
For Private And Personal Use Only