________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
70
तैत्तिरीयसंहिता.
का. १. प्र.७.
जिपत वनस्पतय इन्द्रं वाजं वि मुच्यध्वम्॥३७॥
क्षत्रस्योल्बमसि क्षत्रस्य॒योनिरस ध्वमिति सं-अर्धध्वम्।अजीजिपत । वनस्पतयः। इन्द्रम् । वाम् । वीति । मुच्यध्वम् ॥ ३७॥ स्कनीत युयवपितरा द्विचत्वारिशच्च ॥॥ 'क्षत्रस्य॑ । उल्बम् । असि । झुत्रस्य॑ । योनिः।
हि दुन्दुभयः इन्द्रं वाजमजीजिपत इन्द्रं वाजस्यान्नस्य जेतारं कृतवन्तः । यथोक्तं पूर्व — इन्द्रं वाजं जापयत'* इति । तच्च तथा कृतवन्तस्स्थेत्यर्थः । सम्प्रति विमुच्यध्वं विश्राम्यत विमुक्ताः। जयतेौँ ‘क्रीङ्जीनां णौ' इत्यात्वम्, वर्णव्यत्ययेन धातोरिकारः । वनस्पतिशब्दः पारस्करादिः ॥
इति सप्तमे अष्टमोनुवाकः.
यजमानं ताप्यं घृताक्तं वस्त्र परिधापयति–क्षत्रस्येति ॥ केचित्तरुत्वचं तामेमाहुः । क्षत्रस्य धनस्य शरीरलक्षणस्य उल्वं रक्षाधिकरणस्थानीयं वा परिवासस्त्वमसि ॥
दर्भमयं पत्नी–क्षत्रस्येति ॥ क्षत्रस्य धनस्य योनिः कारणमसि । दर्भमूलत्वाद्धनसाधनानां कर्मणाम् ॥
*सं. १-७-८.
For Private And Personal Use Only