________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
62
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
www
धनेषु विप्रा अमृता ऋतज्ञाः। अस्य मयः पिबत मादयध्वं तृप्ता यांत पथिभिर्देवयानैः । ते नो अर्वन्तो
हवनश्रुतो हवं विश्व शृण्वन्तु वाजिनः । नः। धनेषु । विप्राः । अमृताः। ऋतज्ञा इत्यूत-ज्ञाः । अस्य । मयः । पिवत । मादयध्वम् । तृप्ताः । यात । पथिभिरिति पथिभिः । देवयानैरिति देव-यानैः । "ते । नः । अवन्तः। हवनश्रुत इति हवन-श्रुतः । हव॑म् । वाजे अन्नेऽन्ने साध्ये वाजिनः अश्वाः अस्मानवत रक्षत तल्लम्भयित्वा । किञ्च-धनेषु अवतेति धनानि चास्मान् लम्भयत । हे विप्रा मेधाविनः यथा तद्रागिणः अमृताः अमरणाः ऋतज्ञाः सत्यज्ञास्सत्यवन्तः अस्य मध्वः मधुसदृशस्य वृतस्य पिबत । पूर्ववत्कर्मणि षष्ठी । नुमभावश्चान्दसः । पीत्वा च मादयध्वं तृप्यत । मद तृप्तियोगे, चुरादिरनुदात्तेत् । तृप्ताश्च यात गच्छत । पथिभिर्मा गैर्देवयानैः देवा यैर्गच्छन्ति, तैर्मनोहरैः । कृदुत्तरपदप्रकृतिस्वरत्वम् । 'लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥
"ते नो अर्वन्त इति द्विपदा विराट् । 'विराड्डागतगायत्राभ्याम् ' इति ॥ हे अर्वन्तः अरणकुशलाः । अर्तेः 'अन्येभ्योपि हुश्यन्ते' इति वनिप् । 'अर्वणस्त्रसावनञः' । हवनश्रुतः आह्वानस्य श्रोतारः ते वाजिनोश्वाः अस्माकं हवं आह्वानं शृण्वन्तु विश्वे सर्वेपि । 'भावेनुपसर्गस्य' इति अप , सम्प्रसारणं च ॥
For Private And Personal Use Only