________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
का. १. प्र. ७.
जेषु वाजिनीवत्यश्चान्थ्समत्सु वाजय । अर्वांऽसि सप्तिरसि वाज्य
सि वाजिनो वाजै धावत मरुता वाजिनि । वाजेषु । वाजिनीवतीति वाजिनीवति । अश्वान् । समत्स्विति समत्-सु । वाजय। 'अर्वां । असि । 'सप्तिः । असि । 'वाजी । असि। 5-वाजिनः । वाजम् । धावत । मरुताम् । प्रसव नाजयति गमयति साश्वाजनी कशोच्यते । वाजिनी अन्नती यज्ञसाधनद्वारेण । यद्वा-वेगवती ; अश्वानां वेगहेतुत्वात् । वाजेषु अन्नेषु साध्येषु वाजिनीवती वेगवत्या गत्या तद्वती । यद्वा-वेगवत्याश्वप या तद्वती । सा त्वमश्वान् समत्सु सङ्गामेषु वाजय गमय । सह माद्यन्त्यास्विति समदः ॥ ___5-"तयाश्वान् समवक्षिणोति-अर्वासीति ॥ अर्वा अरणकुशंलः । 'अन्येभ्योपि दृश्यन्ते' इति वनिप् । तादृशोसीति दक्षिणम् । सप्तिः । पप समवाये । सङ्गामेषु सहसा समवैति । तादृशोसीति मध्यमम् । वाजी वेगवान् अन्नवान्वा । तादृशोसीत्युत्तरम् । उक्तमुदात्तयणः परस्यानुदात्तस्य स्वरितत्वम् । 'अग्निर्वा अर्वा । वायुस्सप्तिः । आदित्यो वाजी। '* इत्यादि ब्राह्मणम् ॥ ___8-अश्वानाजिशिरोभ्यावर्तयति-वाजिन इति द्वाभ्याम् । तत्राद्या द्विपदा गायत्री ॥ हे वाजिनः अश्वा वाजमन्नं प्रति
*बा.१-३-६.
For Private And Personal Use Only