________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
mmmm
ककुझान्प्रतूर्तिर्वा जसातमस्तेनायं
वाज सेत् । विष्णोः क्रमौसि ककुद्मानित ककुत्-मान् । प्रतूंर्तिरिति प्र-तूर्तिः। वाजसातम इति वाज-सातमः। तेन । अयम् । वार्जम् । सेत् । 'विष्णोः । कर्मः। असि । वि
न्त्रचते हे अपान्नपात् अपां नप्तश्चतुर्थः । यथा-'अद्भयः प्टथिवी पृथिव्या ओषधयः ओषधीभ्योन्नमन्नादश्वः' इति । हे आशुहेमन् आशुगन्तः । हि गतौ, ‘अन्येभ्योपि दृश्यते' इति मनिन् । 'सुबामन्त्रिते' इति पराङ्गवद्भावात् षष्ठयामन्त्रितसमुदायस्य षाष्ठिकमामन्त्रितायुदात्तत्वम् । तस्य ' नामन्त्रिते समानाधिकरणे' इत्यविद्यमानवत्वनिषेधात्परं न निहन्यते । ऊर्मिश्छादयिता अरणशीलो वा यस्तरङ्गः ककुद्मान् प्रधानभूतः ककुत्सम्बन्धी वा प्रतूर्तिः त्वयि प्रतीर्णः त्वामभिगतः । नसत्तनिषत्तादौ निष्ठायां निपातितं निष्ठावद्भावाक्तिनोपि भवति, 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । वाजसातमः अन्नस्य सम्भक्तृतमः दातृतमः । 'जनसनखन' इति विट् , 'विडुनोः' इत्यात्वम् । तेन तादृशेनायं वाजमन्नं सेत् साधय यजमानस्य हे अश्व । लिङ्कटोरन्यतरः, विकरणस्य लुक् । यद्वा-अयं यनमानः तेन त्वदीयेन वाजं सेत्साधयतु बनातु वा । षिञ् बन्धने ॥
"विष्णुक्रमान्क्रमते रथं यजमानोभ्येति-विष्णोरिति ॥ विष्णोर्भगवत एव क्रमोसि गमनसाधनत्वात् । प्रकृष्टस्य विष्णोः क्रमरूपेण स्तूयते रथः विष्णोः क्रमवत् भविष्यसि जयहेतुरिति । विष्णोः
For Private And Personal Use Only