________________
Shri Mahavir Jain Aradhana Kendra
54
www. kobatirth.org
WES
तैत्तिरीय संहिता.
नो दे॒वस्त॑वि॒ता धर्मं साविषत् ।
अ॒प्सु ॥३२॥ अ॒न्तर॒मृत॑म॒प्सु भे॑षु॒ - जम॒पामुत प्रश॑स्ति॒ष्वव भवथ वाआ॒वि॒वेशेत्या॑ वि॒वेश॑ । तस्या॑म् । न॒ः । दे॒वः । स॒वि॒ता । धर्मं । सावि॒िषत् । अ॒प्स्वत्य॑प् - सु॥ ३२ ॥ अ॒न्तः । अ॒मृत॑म् । अ॒प्स्वय॑प्सु । भेष॒जम् । अ॒पाम् । उ॒त । प्रश॑स्ति॒ष्विति॒ि प्र - शस्तिषु । असुखेन वर्तते । तस्यामस्यां नोस्माकं धर्म धारणं रथस्य देवसविता साविषत् अनुजानातु । सुवतेर्लेटि ' सिब्बहुलं लेटि ' इति सिब्विकरणस्य लुक् इतश्च लोपः, गुणे कृते छान्दसं दीर्घत्वम् । यद्वा — छान्दसो लुङ्, सिचि वृद्धिः, ईटोपवादो - डागमः ' अमाङचोगेपि ' इति धातोरडभावः ॥
"
Acharya Shri Kailassagarsuri Gyanmandir
[का. १. प्र. ७.
For Private And Personal Use Only
'अश्वानप्सु स्नापयति-- अप्चन्तरिति पुरउष्णिहा ॥ अप्व - न्तरममृतं वर्तते अमरणत्वम् । अप्स्वेव भेषजं अमृतत्वस्य साधनम् । ' ऊडिदम्' इति सप्तम्या उदात्तत्वम् । पूर्वत्र 'उदात्तस्वरितयोः ' इति संहितायां स्वरितत्वम् | अमृतस्य स्वर उक्तः । तस्माद्या अन्या अप्यपां प्रशस्तयः प्रशस्तगुणाः तासु सर्वास्वपि हे अश्वा भवथ तत्सम्बन्धाद्यूयमपि तत्स्वभावा भवथ । हे वाजिनः अन्नवन्तः । अत्र पादादित्वादश्वा इति न निहन्यते । षाष्ठिकमा - मन्त्रिताद्युदात्तत्वम् ; तस्य च व्यत्ययेन विद्यमानवच्चाभावः । यद्वा - नाश्वा इत्यामन्त्रितम् । अपां प्रशस्तिप्वश्वा व्याप्तिमन्तो भवथ हे वाजित इति । सर्वमिष्टं सिद्धम् । ' तादौ च निति' इति गतेः प्रकृतिस्वरत्वम् ॥