________________
Shri Mahavir Jain Aradhana Kendra
444
www. kobatirth.org
तैत्तिरीय संहिता.
[का. २. प्र. २.
1
10
I
णाँ स॒त्रा च॑क्राणो अ॒मृता॑नि॒ वि - श्वा॑ । हिर॑ण्यपाणिमू॒तये॑ सवि॒ता - र॒मुप॑ ह्वये । स चेता॑ दे॒वता॑ प॒दम् । वा॒मम॒द्य स॑वि॒तर्वा॒ममु॒ श्वो दिवेअ॒मृता॑नि । विश्वा॑ । 'हिर॑ण्यपाणि॒मति॒ हिर॑ण्यपाण॒म् । ऊ॒तये॑ । सवि॒तार॑म् । उपेति॑ । ये । सः। चेता॑ । दे॒वता॑ । प॒दम् । " वामम् । अ॒द्य । स॒वि॒तः । वामम् । उ॒ । श्वः । दि॒वेदि॑व॒ इति॑ दि॒वे - कुर्वन् रयीणां वा रयिपतिः सर्वेषां धनानां नित्यं पालकः भुवत् भवेत् । शपो लुकि पूर्ववद्गुणाभावः, 'परादिश्छन्दसि' इत्युक्त - रपदाद्युदात्तत्वं, 'नामन्यतरस्याम् ' इति नामः । पुनश्च किं कुंर्वन्नित्याह — सत्रा सहभूतानि । पूर्ववदाकारः, शेर्पा लोप:, छान्दसो वा डाच् । चक्राणः ददानः सहैव दातुं शक्तः । शक्तौ चानश् बहुलं छन्दसि' इति शपश्श्लुः, यद्वा - छान्दसस्य लिटः कानजादेशः । किं चक्राणः ? विश्वानि अमृतानि अमरणहेतुभूतानि हिरण्यादीनि ॥
1
"
Acharya Shri Kailassagarsuri Gyanmandir
'अथ सावित्रस्य द्वादशकपालस्य पुरोनुवाक्या — हिरण्यपाणिमिति गायत्री ॥ व्याख्यातेयं ग्रहेषु । हिरण्यपाणि हिरण्याभरणपाणि रसहरणरश्मि हितरमणीयरश्मिं वा सवितारमुपह्वये उपेत्याह्वयामि उतये रक्षणाय । स खलु चेत्ता ज्ञांता अस्माकं पदमास्पदं देवतास्माकं स एवेति ॥
" तत्रैव याज्या --- वाममद्येति त्रिष्टुप् ॥ इयमपि तत्रैव व्या
*सं. १-४०२५.
For Private And Personal Use Only