________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपेता.
33
वृते घृतवन्तं कुलायिन रायस्पोपर सहस्रिणं वेदो ददातु वाजिनमित्याह प्र सहस्र पशूनाप्नोत्यास्य प्रजायाँ वाजी जायते य एवं
वेद ॥ २० ॥ घृत-वन्तम् । कुलायिनम् । रायः । पोषम् । सहस्रिणम् । वेदः । ददातु । वाजिनम् । इति । आह । प्रेति । सहस्रम् । पशून् । आप्नोति । एति । अस्य । प्र॒जायामिति प्र-जायाम् । वाजी। जायते । यः । एवम् । वेद ॥२०॥ दर्शपूर्णमासयोरुभयो देवाश्वास्सुरेाः प्र॒जाप॑तिमिथुनेनाप्नोत्य॒ष्टौ च ॥४॥
त्यतः पुरा गृह्णीयात् । तत्सर्वमस्य वृते स्वयमेव गृह्णाति । वृनी वर्नने, रोधादिकः । यद्वा--तत्सर्वं तस्य वर्जयति नाशयति । वेदितुः प्रजासु वाजी जायते अन्नवानेव सर्व आजीनायते, सर्वत्र वा जायते ॥
इति सप्तमे चतुर्थोनुवाकः.
For Private And Personal Use Only