________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
362
। तैत्तिरीयसंहिता.
का. २. प्र. २.
शुचय आयुरेवास्मिन्तेन॑ दधात्युत यदीतासुर्भवति जीवत्येवैतामेव निर्व पेचक्षुष्कामो यदनये पव॑मानाय निर्वपति प्राणमेवास्मिन्तेन॑ दधाति यनये पावकाय वाचमेवास्मिन्तेन॑ दधाति यदग्नये शु
चये चक्षुरेवास्मिन्तेन॑ दधाति ॥३७ एव । अस्मिन्न् । तेन । दधाति । 'उत । यदि । इतासुरितीत-असुः । भवति । जीवति । एव । ए॒ताम् । एव । निरिति । वपेत् । चक्षुष्काम इति चक्षुः-कामः। यत् । अग्नये । पर्वमानाय । निपतीति निः-वति। प्राणमिति प्र-अनम्।एव। अस्मिन् । तेन । दधाति । यत् । अग्नये । पावकार्य । वाचम् । एव । अस्मिन्न् । तेन । दधाति । यत् । अग्नये । शुचये । चक्षुः । एव । अस्मिन् । तेन । दधाति ॥ १७ ॥ उत । यदि । अन्धः ।
'एतामेवेत्यादि ॥ चक्षुष्कामस्तिमिरादिदोषनिवृत्तिकामः । यद्यप्यन्धो भवति अनेन कर्मणा प्रपश्यत्येव प्रकृष्टदर्शनवान् भवति ॥
For Private And Personal Use Only