SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ११.] भट्टभास्करभाष्योपेता. 335 वरुण श्रुधी हवमद्या च मृडय। त्वाम॑व॒स्युरा चके । तत्त्वां यामि ब्रह्मणा वन्दमानस्तदा शास्ते यज मानो हविभिः । अहैडमानो वरुमे । वरुण । श्रुधि । हव॑म् । अद्य । च । मृडय । त्वाम् । अवस्युः । एति । चके । "तत् । त्वा । यामि । ब्रह्मणा । वन्दमानः । तत् । एति । शास्ते । यजमानः । विभिरिति हविः-भिः। अहैडमानः । वरुण । इह । बोधि । उहायसेत्युरुपुरोनुवाक्या-इमं म इति गायत्री । श्रुधीति प्रथमपादान्तः ॥ हे वरुण इममस्मदीयं हवमाह्वानं श्रुधि शृणु । 'बहुलं छन्दसि' इति शपो लुक् । 'श्रुशृणुप्रकृवृभ्यः' इति धिभावः । श्रुत्वा चाद्यैव मां मृडय सुखय । यस्मादहं त्वामवस्युः रक्षणमात्मन इच्छन् । 'क्याच्छन्दसि ' इत्युप्रत्ययः । आचके आभिमुख्येन शब्दयामि प्रार्थये । के गै शब्दे ॥ "तत्रैव याज्या-तत्त्वेति त्रिष्टुप् ॥ हे वरुण ब्रह्मणा मन्त्रेण त्वामेव वन्दमानः स्तुवन्नहं तत्तदर्थम् । चतुर्थ्या लुक् । तदर्थमेव त्वां यामि भने । यहा—तदेव त्वां यामि याचे । छान्दसोन्त्यलोपः, परस्मैपदं च । यजमानोपि सर्वस्तदेवाशास्ते हविभिश्चरुपुरोडाशादिभिः हे उरुशंस महास्तुतिक त्वमपि तामस्मदीयां विज्ञापनां इह कर्मणि अहेडमानः अक्रुद्धचन् बोधि बुध्यस्व । पूर्ववद्विकरणस्य लुक , 'हुझल्भयो हेधिः', 'वा छन्दसि' For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy