________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
324
तैत्तिरीयसंहिता.
[का. २. प्र. १.
ते रश्मिभिस्त ऋक्कभिस्सुखादयः। ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः । अग्निः प्रथमो वसुभिनों अव्यात्सो
मौ रुद्रेभिरभि रक्षतु त्मना । इन्द्रो भिः। ते । ऋकरित्युक्त-भः । सुखादय इतिसु-खादयः । ते। वाशीमन्त इति वाशि-मन्तः। इष्मिणः । अभीरवः । विद्रे । प्रियस्य । मारुतस्य । धाम्नः। अग्निः। प्रथमः । वसुभिरिति वसु-भिः। नः। अव्यात् । सोमः। रुद्रेभिः। अभीति। रक्षतु । त्मना । इन्द्रः । मरुद्भिरित मरुत्-भिः।
इति चतुर्थपादादिः ॥ हे मरुतः श्रियसे सेवितुं कं जलं वृष्टयर्थम् । तुमर्थे असेप्रत्ययः । भानुभिः भानवद्भिः भानशीतैर्वा रश्मिभिः सूर्यस्य रश्मिभिः करैः सम्मिमिक्षिरे सङ्गच्छन्ते । मिक्षतिर्गतिकर्मा छान्दसः । यहा—लोके जलं श्रयितुं रश्मिभिस्सह मिमिक्षिरे मेढुमिच्छन्ति वृष्टया पृथिवी सेक्तुमिच्छन्ति ते मरुतः सुखादयः सुखादनाः । खादतेरौणादिक इप्रत्ययः । सुष्टु हविषां भक्षयितारो भूत्वा ऋत्विग्भिः सङ्गच्छन्ते । ऋक्वन्तो मन्त्रवन्तः ऋत्विज इत्यर्थः । 'छन्दसीवनिपौ' इति वनिप् , अयस्मयादित्वेन पदत्वात्कुत्वम्, भत्वाजश्त्वाभावः । ऋत्विग्भिस्संयुज्य हवींषि भक्षयन्तीत्यर्थः । ते मरुतो वाशीमन्तः शब्दवन्तः इप्मिणः
For Private And Personal Use Only