________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भट्टभास्करभाष्योपेता.
285
तपरमालभेताऽभिचरन्ब्रह्मणस्पतिमेव स्वेन भागधेयेनोपंधावति तस्मा एवैनमा वश्चति ताजगार्तिमार्छति तूपुरोभवति क्षुरप॑विर्वा एषा लक्ष्मी यतूंपरस्समृद्धयै स्फ्यो यूपो भवति व
जो वै स्फ्यो वज्रमेवास्मै प्रहरति शलभेत । अभिचरन्नित्य॑भि-चरन्न् । ब्रह्मणः। पतिम् । एव । स्वेन । भागधेयेनेति भाग-धेयैन। उपेति । धावति । तस्मै । एव । एनम् । एति । वृश्चति । ताजक्। आतिम् । एति। ऋच्छति। तूपरः । भवति । क्षुरपविरिति क्षुर-पविः । वै । एषा । लक्ष्मी । यत् । तपरः । समृया इति सं-ऋढ्यै । 'स्फ्यः। यूपः । भवति । वजः । वै । स्फ्यः । वर्जम् । एव । अस्मै । प्रेति । हरति । शरमयमिति शरअभिचरन् मारयन् शत्रून् । ब्रह्मणः छान्दसो लुक् । 'षष्ठयाः पतिपुत्र' इति सत्वम् । एनमिति । अभिचर्यमाणं तस्मै ब्रह्मणस्पतये आभिमुख्येन वृश्चति । ताजक् तदानीमेव आति प्राप्नोति । 'उपसर्गादति धातौ' इति वृद्धिः । क्षुरपविरिति । क्षुरत्वे छेदनसामर्थ्य स्थितं पवित्वं वचत्वं यस्यास्सा तथोक्ता शीघच्छेदिनी, लक्ष्मी लक्षणम् ॥ 'स्फ्य इति ॥ स्फ्याकृति'पः कार्यः स्फ्य एव वा यूपः
For Private And Personal Use Only