________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता
का. १. प्र. ७.
य एवं वेद प्रत्येव तिष्ठत्यय वै तामुपौढ इति होवाच यस्यै निकर्मणे घृतं प्रजासञ्जीवन्तीः पिबन्तीति छिनत्ति सा न छिनत्ती३ इति
नछिनत्तीति होवाच प्रतु जनयतीपरा-भवन्तीः । अन्विति । गृह्णाति । प्रतीति । आभवन्तीरित्या-भवन्तीः । गृह्णाति । यः। एवम्। वेद । प्रतीति । एव । तिष्ठति । अर्थ । वै। ताम्। उपेति । अहे । इति । ह । उवाच । यस्यै । निकमण इति नि-क्रमणे । घृतम् । प्रजा इति प्रजाः । सञ्जीवन्तीरिति सं-जीवन्तीः । पिबन्ति । इति । "छिनति । सा। न । छिनत्ती३ । इति । "न । छिनत्ति । इति । ह । उवाच । प्रेति । तु।
अथ तुमिञ्ज उवाच-अथेति ॥ लक्षणं चाभिधत्ते-यस्या इत्यादि । यस्या निक्रमणे न्यक्पतने सर्वाः प्रजास्सञ्जीवन्त्यः घृतमुदकं पिबन्ति । ब्राह्मणान्तरं च भवति ‘सा यत्र यत्र न्यक्रामत्तो घृतमपीड्यत'* इति ॥ 1 अथ संश्रवा उवाच-छिनत्तीत्यादि ॥ व्याख्यातम् ॥
"अथ तुमिञ्जः प्रत्युवाच-न छिनत्ति, अपितु प्रजनयत्येव प्रजा इति ।। - *सं-२-६-७.
सिं. १-७-२१
For Private And Personal Use Only