________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
200
तैत्तिरीयसंहिता.
[का. 1. प्र. ८.
ण्ठो दक्षिणा वैष्णवं त्रिकपालं वामनो दक्षिणा ॥३३॥
सद्यो दीक्षयन्ति सद्यस्सोम क्रीणमित्य॒ष्टा-कपालम् । शुण्ठः । दक्षिणा । “वैष्णवम् । त्रिकपालमिति त्रि-कपालम् ।वामनः । दक्षिणा ॥ ३३ ॥ आग्नेय हिरण्य५ सारस्वतं द्विचत्वारि
शत् ॥ १७॥ 'सद्यः । दीक्षयन्ति । सद्यः। सोम॑म् । क्रीणमष्टाकपालं निर्वपति ॥ तत्र शुण्ठः अल्पकायो गौर्दक्षिणा । ___श्वोभूते प्रवर्योद्वासनात्माग्वैष्णवं त्रिकपालं निर्वपति ॥ तत्र वामनो द्वस्वो गौर्दक्षिणा ॥
इत्यष्टमे सप्तदशोनुवाकः.
अथ दशपेयस्य तन्त्रविशेषान् कांश्चिद्विदधाति--सद्यो दीक्षयन्तीत्यादि ॥ सद्यस्समानेति । 'सद्यःपरुत् ' इति निपात्यते । दीक्षाया यद्भवति, सोमक्रयस्य च यद्भवति सर्व समानेह्नि कुर्यात् । अशक्यं लुप्यते, शक्यं क्रियते एतदुक्तं भवति--एका दीक्षा, तिस्त्र उपसदः । तत्र द्वादश्यां वारुणयागानन्तरं दशपेयेन दीक्षा इत्यादि प्रथमोपसदं तदहरेव कुर्युरिति । सोमपरिवेषणं
For Private And Personal Use Only