________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १४.]
भभास्करभाष्योपेता.
181
दियोन्मा पाह्यवेष्टा दन्दशूका नि
रस्तं नमुचेशिरः । सोमो राजा मा। पाहि । दिद्योत् । मा । पाहि । 'अवेष्टा इत्यव-इष्टाः । दन्दशूकाः । निरस्तमिति निःअस्तम् । नर्मुचेः । शिरः । सोमः । राजा ।
पञ्चम्या लुक्, वर्ग ततो मां पाहि युतिस्वाप्योरसम्प्रर
उपरिष्टात्सुवर्णमधिनिदधाति--दिद्योदिति ॥ दिद्युत् आयुधमुच्यते । द्युतेः क्विपि द्विवचनं, 'द्युतिस्वाप्योरसम्प्रसारणम् । अत्रापि भवति । ततो मां पाहि । ‘सुपां सुलुक् ' इति पञ्चम्या लुक् , वर्णव्यत्ययेन उकारस्योकारः । यहा-द्युतेर्विचि द्विर्वचने गुणे दिद्योदिति । शब्दान्तरं दितेर्दिद्युत् अवखण्डनकदिति केचित् । सुवर्णविशेषणं वा । हे सुवर्ण दिद्योत् द्योतमान मा पाहीति ॥
"क्लीबं सीसेन विद्ध्यति-अवेष्टा इति ॥ अवेष्टाः विनाशिताः । अवपूर्वो यजिविनाशने । दन्दशूकाः दशनशीलास्सादयः । 'यनजपदशां यङः' इत्यूकप्रत्ययः ॥
लोहितायसं पादेन निरस्यति-निरस्तमिति गायत्यूकपदया॥ निरस्तं निष्कृप्यास्तं नमुचेश्शिरः न मुञ्चति पुरुषमिति नमुचिः अधर्मः । न मुञ्चत्यधर्ममिति वा नमुचिरसुरः बाधकः, तस्य शिरो निरस्तमनेन लोहितायसेन ॥
"अभिवेकानवेक्षते-सोम इति षट्दया त्रिष्टुभा ॥ सोमो राजा वरुणश्च देवाश्चान्ये ये धर्मसुवः धर्मस्यानुज्ञातार उत्पादयितारो
For Private And Personal Use Only