________________
Shri Mahavir Jain Aradhana Kendra
162
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
वि॒श्य॑स्मित्र्राष्ट्रे म॑ह॒ते क्ष॒त्राय॑ मह॒त आधिपत्याय मह॒ते जान॑राज्यायै॒
[का. १.प्र. ८.
अ॒स्याम् । वि॒िशि । अ॒स्मिन् । राष्ट्रे । म॒ह॒ते । क्ष॒त्राय॑ । म॒ह॒ते । आधि॑पत्या॒येत्याधि॑ प॒त्या॒य॒ । म॒ह॒ते ।
*सं. १८०१०.
"
लब्धात्मा, परिनिष्पन्नात्मा वा । विन्दतेर्विद्यतेर्वा निष्ठा । अग्रेर्गृहपतित्वमिदानीं परिनिष्पन्नमिति । ' गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वम्, कर्तरि निष्ठायां तु व्यत्ययेन । इन्द्रश्चेदानीं वृद्धश्रवाः प्रवृद्धकीर्तिः आविन्नः । पूषा चेदानीं विश्ववेदाः विश्वस्य वेदिता आविन्नः । ' गतिकारकयोरपिं ' इत्यसुन् । विश्वधनो वा । मित्रावरुणौ चेदानीमृतावृधौ ऋतस्य यज्ञस्य सत्यस्य वा वर्धयितारौ आविन्नौ । ' अन्येषामपि दृश्यते ' इति दीर्घत्वम् । देवताद्वन्द्वे च' इति मित्रावरुणशब्दे पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । द्यावाष्टथिवी द्यावाष्टथिव्यौ च धृतव्रते धृतकर्मणावाविन्ने । 'दिवो द्यावा' इति द्यावादेशः, पूर्ववत्प्रकृतिस्वरत्वम् । अदितिर्देवमाता ष्टथिवी वा । देवी दीप्तिमती । इदानीं विश्वरूपैस्सर्वैर्विकाररूपैस्तद्वती आविन्ना । गौरादित्वात् ङीष् । तथाऽयं च यजमानः असौ नरसिंहवर्मा आमुष्यायणः राजेन्द्र-वर्मणोपत्यमिति युवप्रत्ययान्तं पितुर्नाम गृह्यते ; राजेन्द्रायण इति यथा । अमुष्यशब्दान्नडादित्वात्फक् । अस्यां विशि । जातावेकवचनम् । कुटुम्बभूतासु प्रजासु अस्मिनाष्ट्रे सर्वजनपदे आविन्नः । महते क्षत्रायेति व्याख्यातम् ||
For Private And Personal Use Only