________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
168
तैत्तिरीयसंहिता.
का. 1. प्र. ८.
युनिनीरूज॑ एता अनिभृष्टा अपस्युवो वसानः । पुस्त्यासु चके वरुणस्स॒धस्थमपा शिशुः ॥ २१ ॥
मातृतमास्वन्तः । क्षत्रस्योल्वमसि माद् इति सध-मादः। युनिनीः । ऊर्जः। एताः। अनिभृष्टा इत्यनि-भृष्टाः । अपस्युवः । वसानः । पुस्त्यांसु । चक्रे । वरुणः । सधस्थमिति सधस्थम् । अपाम् । शिशुः ॥२१ ॥ मातृतमास्विति मातृ-तमासु । अन्तः ।' क्षत्रस्यं । उल्बम् । सहैकस्मिन् पात्रे मादयन्त इति सधमादः । मद तृप्तियोगे, चौरादिकः, क्विपि णिलोपः, 'सधमाधस्थयोश्ठन्दसि ' इति सधादेशः । धुनिनीर्धनवतीः दीप्तिमतीर्वा । ऊर्जः ऊर्जयित्रीः । ऊर्जयतेः कर्तरि क्विप् । बलहेतुभूताः । अनिभृष्टाः अक्लिष्टाः अपस्युवः अपांसि कर्माणीच्छन्तीः । छान्दस उवङ् । एवम्भूता एता अपः वसानः आच्छादयन् एताभिरात्मानं छादयित्वा पस्त्यासु गृहभूतास्वेतासु सधस्थमेताभिस्सहस्थानं वरुणश्चक्रे करोति । अपामासां शिशुश्शिशुरिव मातृतमासु अतिशयेन जगतो निर्मात्रीषु पस्त्यासु भूतासु अन्तः मध्ये वरुणः सधस्थं करोति यथा मातृणामुदरे. शिशुस्सहवासं करोति । ता एवम्महानुभावाः अस्याभिषेकाय गृह्णामीति ॥
"तायं परिधापयति–क्षत्रस्योल्बमिति ॥ व्याख्यातं वाजपेये*। घृताक्तं तार्ण्यम् ॥
*सं. १०-७-९.
For Private And Personal Use Only