________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.]
भट्टभास्करभाष्योपेता.
पह्वयेत य इमा॑मुपहूयात्मानमिडायामुपह्वयतेति सा नः प्रिया सुप्र
तूर्तिमघोनीत्याहेडामेवोपहूयात्मानइति ब्रह्म-वादिनः । वदन्ति । सः । तु । वै। इडाम् । उपेति । ह्वयेत् । यः । इडाम् । उपहूयेत्युप-हूयं । आत्मानम् । इडायाम् । उपह्वयेतेत्युप-बयेत । इति । 'सा । नः । प्रिया । सुप्रतूतिरिति सु-प्रतूर्तिः । मघोनी । इति । आह । इडाम् । एव । उपहूयेत्युप-हूयं । आत्मानम् ।
उक्तं च प्रातिशाख्ये-'तुनुपूर्व उदात्तयोर्वकारः '* इति । य इडामात्मनि उपहूयात्मानमिडायामुपह्वयते स एवेडामुपहातुमर्हतीति ब्रह्मवादिन आहुः ॥ ·
"सा न इत्यादि ॥ सुप्रतूर्तित्वान्मघवत्वाच्च सास्माकं प्रियति आत्मानमिडायामुपह्वयते । व्यस्तमित्यादि । विच्छेद इवैष यज्ञस्य क्रियते यदिडा नाम । कथमित्याह-सामीत्यादि । · तत्र हविषो यदेकदेशं प्राभन्ति यजमानपञ्चमा ऋत्विजः, एकदेशं प्रस्तरे मार्जयन्ते, नायं यज्ञो न दक्षिणा व्यय एवायं; तस्माद्विच्छिद्यते यज्ञ इति । 'चादिलोपे विभाषा' इति प्रथमा तिभिक्तिर्न निहन्यते, गतिस्वरसमासावुक्तौ ॥
*५,१३.
For Private And Personal Use Only