________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
150
तैत्तिरीयसंहिता.
का. 1. प्र. ८.
होमुचेयं नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यान्मत्राबार्हस्पत्यं
भवति श्वेताय श्वेतवत्सायै दुग्धे अहोमुच इत्यहः-मुचे। "अयम्। नः । राजा। वृत्रहेति वृत्र-हा । राजा । भूत्वा । वृत्रम् । वध्यात् । “मैत्राबार्हस्पत्यमिति मैत्रा-बार्हस्पत्यम् । भवति । श्वेताय । श्वेतवत्साया इति श्वेत-वत्सायै । दुग्धे । स्वयम्मूर्त इति स्वयं-मूर्ते । स्वयहोमुचे पुरोडाशमेकादशकपालं प्रति निर्वपति । प्रतिनिर्वाप्ये एते । केचिदृषभं दक्षिणामाहुः ॥
पुरस्तात्स्विष्टकृतोध्वर्युर्जपति-अयं न इति ॥ रनिनां गृहेभ्यः प्रव्रजतोनुमन्त्रणमनेनेति केचिदाहुः । अयं नोस्माकं राजा वृत्रहा शत्रुहा भूत्वा राजा दीप्यमानश्च भूत्वा वृत्रं शत्रून वध्यात् नाशयेदित्याशास्महे । जातावेकवचनम् । यद्वा-वृत्रहा राजा इन्द्रः यो वृत्रं हत्वा अधिकार्थ* राजा स एव भूत्वा वृत्रं वध्यादिति ॥ ___अथैन्द्रकर्मणि समाप्ते श्वो भूते अभिषेचनीयोक्थ्ये प्रक्रान्ते विहविष्कां दीक्षणीयामिष्टिं विदधाति—मैत्राबार्हस्पत्यं भवतीति ॥ मैत्रश्च हिस्पत्यश्च मैत्राबार्हस्पत्यं, समाहारद्वन्द्वः । मैत्रश्च बार्हस्पत्यश्च द्वौ चरू कर्तव्यौ भवत इत्यर्थः । समासान्तोदात्तत्वं, छान्दस आनङ् । तत्र बार्हस्पत्यस्य प्राथम्येपि
*क,म,घ-अधिकर्थ
For Private And Personal Use Only