________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
148
तैत्तिरीयसंहिता.
[का. 1. प्र. ८.
WW
प्तकपालं ग्रामण्यो गृहे पृश्निर्दक्षिणा सावित्रं द्वादशकपालम्॥१५॥ क्षगुंह उपध्वस्तो दक्षिणाश्विनं
दिकपाल५ सङ्ग्रहीतुगृहे सवात्यौ ग्राम-न्यः । गृहे । पृभिः । दक्षिणा । सावित्रम्। द्वादशकपालमिति द्वादश-कपालम् ॥ १५॥ क्षत्तुः । गृहे । उपध्वस्त इत्युप-ध्वस्तः। दाक्षिणा। 'आश्विनम् । द्विकपालमिति द्वि-कपालम् । सङ्ग्रहीतुरिति सं-ग्रहीतुः । गृहे । सवात्याविति
सप्तकपालं निर्वपति । तत्र एभिः शुक्लो गौर्दक्षिणा । कुरटाख्यो गोविशेष इत्यन्ये ॥ ___ श्वो भूते क्षत्तुर्मन्त्रिणः । अन्तःपुराध्यक्षस्येत्येके । तस्य गृहं गत्वा तत्र सावित्रं द्वादशकपालं निर्वपति । तत्र उपध्वस्तोन्येन वर्णेन परिभूतनिजवर्णो गौर्दक्षिणा । 'संज्ञायामनाचितादीनाम् ' इत्युत्तरपदाद्युदात्तत्वम् ॥ _श्वो भूते सङ्ग्रहीतुस्सारथेः रश्मिग्राहिणो गृहं गत्वा आश्विनं द्विकपालं निर्वपति । रज्जुभिर्नियन्ता कुमाराध्यक्ष इत्यन्ये । सत्रात्यो समानमातृकवत्सौ समाने वाते भवौ सवात्यौ सोदौ । ‘भवे छन्दसि' इति यः । वत्सान्तरेण दोह्या मृतवत्सा च तदीया च मातेत्यन्ये ॥
For Private And Personal Use Only