________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
146
तैत्तिरीयसंहिता.
का. १. प्र. ८.
गृहे शितिपृष्ठो दक्षिणेन्द्रमेकादशकपाल५ राजन्यस्य गृह ऋषभो दक्षिणादित्यं चरुं महिष्यै गृहे धेनुदक्षिणा नैर्ऋतं चरुं परिवृत्त्यै
गृहे कृष्णानां ब्रीहीणां नखनिर्भिन्नं दक्षिणा । ऐन्द्रम् । एकादशकपालमित्येकादशकपालम् । राजन्यस्य । गृहे । ऋषतः । दक्षिणा । 'आदित्यम् । चरुम् । महिष्यै । गृहे । धेनुः । दक्षिणा । नैऋतमिति नैः-ऋतम् । चरुम् । परिवृत्त्या इति परि-वृत्त्य । गृहे । कृष्णानाम् । वीहीणाम् । नखनिर्भिनमिति नख-निर्भिन्नम् । बार्हस्पत्यं चकै निर्वपति । पत्युत्तरपदलक्षणो ण्यः । तत्र शितिपृष्ठः श्वेतप्टष्ठो गौर्दक्षिणा ॥
श्वो भूते राजन्यस्य गृहं गत्वा तत्रैन्द्रमेकादशकपालं निर्वपति । तत्र ऋषभो दक्षिणा ॥ ___ वो भूते महिष्याः प्रथमाया राज्ञः पत्न्या गृहं गत्वा तत्रादित्यं चरुं निर्वपति । अङ्गष्ठमात्रः पुरोडाशः इत्येके ॥ ___ श्वो भूते परिवृक्त्या राज्ञो मध्यमपत्न्याः । परिपूर्वात् वृणक्तेः ‘क्तिचि क्तौ च संज्ञायाम् ' इति क्तिच् , 'उदात्तयणः । इति विभक्तेरुदात्तत्वं बाधित्वा 'उदात्तस्वरितयोर्यणः' इति व्यत्ययेन स्वरितत्वम् । कृष्णानां व्रीहीणां पत्न्या नखैर्निर्भिन्नं नखनिर्भिन्नं तण्डुलैश्चरं कुर्यात् । 'तृतीया कर्मणि' इति पूर्वपदप्रकृति
-
-
For Private And Personal Use Only