SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु ६.] भट्टभास्करभाष्योपेता. 133 यथासंति । सुगं मेषाय मेष्यो अवाम्ब रुद्रमदिमावं देवं त्रयम्ब कम् । यर्था नश्श्रेयसः करद्या नो मेषाय । मेष्य । अवेति । अम्ब । रुद्रम् । अदिमहि । अवेति । देवम् । त्र्यम्बकमिति त्रि-अम्बकम् । यर्था । नः । श्रेय॑सः । करत् । या । नः। वस्य॑सः । करत् । यथा । नः । पशुमत इति असति भवेत् ; तथा जुषस्व । अथो अपि च अस्मभ्यं यथा भेषजं रोगशमनं च भवेत्, सुभेषजं च शरीरसिद्धयादिकारणं यथा भवेत्, सुगं सुष्टुगम्यं सेव्यं यथा भवेत् । सुष्टु वा गम्यतेऽनेन सर्वमभिमतं यथा तथा तं जुषस्व । किञ्चमेषेभ्यो मेषीभ्यश्च भेषजं यथा स्यात् तथा जुषस्व । अस्तेर्लेटि शपो लुकि 'लेटोडाटौ' इत्यडागमः । गोशब्दात् ‘सावेकाचः' इति प्राप्तं विभक्तयुदात्तत्वं 'न गोश्वन्' इति प्रतिषिध्यते ॥ 'इदानीमारोग्यानन्तरं धनसमृद्धयादिकमाशास्ते–अवाम्बेति षट्दा जगतीयम् ॥ अत्र देवीं प्रत्याशास्ते । हे अम्ब जगतां मातः देवं (अम्ब) वयमवादिमहि अवदानैस्तोषयामः । अवदानसाध्या देवतातृप्तिरवदानेन लक्ष्यते । छान्दसो लुङ् , व्यत्ययेनात्मनेपदम्, 'स्थाम्बोरिञ्च' इतीत्वकिये, ‘ह्रस्वादङ्गात् ' इति सिचो लुक् । त्र्यम्बकञ्च देवमवादिमहीत्येव । आदरार्थं द्वितीयं ब्रवी For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy