________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भभास्करभाष्योपेता.
127
अपीत यमेन ये संधमादं मदन्ति। मनो न्वा हुवामहे नाराशरसेन स्तोमैन पितॄणां च मन्मभिः । आ
॥८॥ न एतु मनः पुनः क्रत्वे मादमिति सध-मादम् । मदन्ति । 'मनः । नु । एति । हुवामहे । नाराशरसेनं । स्तोमैन । पितृणाम् । च। मन्माभिरिति मन्म-भः । एति ॥ ८॥ नः । एतु । मनः । पुनः । क्रत्वे । दक्षाय। मुलन्तो वा । यमेन सहाभीक्ष्णं मदन्तीति माद्यतेर्व्यत्ययेन शप । मादयतेर्वा व्यत्ययेन परस्मैपदम्, 'छन्दस्युभयथा' इति सार्वधातुकत्वाणिलोपः ॥
'अथ तैस्सह तं देशं गतमिव कृत्वा मन आह्वयति—मन इति तिसृभिर्गायत्रीभिः ॥ मनः आहुवामहे आह्वयामः । पूर्ववत्सम्प्रसारणम् । नु क्षिप्रं पूर्ववदिति वा । नाराशंसेन नराणां सर्वेषामपि शंसनीयेन मनोहरेण स्तोमेन स्तोत्रेण शस्यन्ते स्तूयन्ते तेन वाचिकेन स्तोमेन मानसेन पितॄणाञ्च मन्मभिः मननीयैरिष्टतमैः स्वधादिभिः पदैर्युक्तेन स्तोमेनाह्वयामहे ॥ ___ अथ द्वितीया ॥ तस्मान्नः अस्मान् पुनरैतु । किं प्रयोजनं ? क्रत्वे कर्मणे कर्मानुष्ठानार्थम् । 'जसादिषु वा वचनं प्रा डौ चयपधायाः' इति गुणाभावः । दक्षाय क्रियानुष्ठानसामर्थ्याय । तदपि किमर्थं ? इत्याह—जीवसे जीवितुं दीर्घमायुर्यथा स्यात् । 'तुमर्थे सेसेन् ' इति सेप्रत्ययः । किमेतावदेव प्रयोजनम् ? ज्योक्
For Private And Personal Use Only