________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
122
तैत्तिरीयसंहिता.
का. १. प्र. ८.
सोमा॑य पितृमते पुरोडाशय षपालं निर्वपति पितृभ्यो बर्हिषद्भ्यो धानाः पितभ्योग्निष्वानेभ्योभिवा
न्यायै दुग्धे मन्थमेततै तत ये च 'सोमा॑य । पितृमत इति पितृ-मते । पुरोडाशम् । षट्पालमिति षट्-कपालम् । निरिति । वपति । पितृभ्य इति पितृ-भ्यः । बर्हिषद्य इति बहिषत्-भ्यः । धानाः । पितृभ्य इति पितृ-भ्यः । अग्निष्वात्तेभ्य इत्य॑ग्नि-स्वात्तेभ्यः । अभिवान्याया इत्यभि-वान्यायै । दुग्धे । मन्थम्। एतत् । ते । तत । ये । च । त्वाम् । अन्विति । __ 'अथ पितृयज्ञहवींषि विदधाति-सोमाय पितृमते पुरोडाशमित्यादि ॥ 'संवत्सरो वै सोमः पितृमान् '* इत्यादि ब्राह्मणम् । 'द्वस्वनुडभ्यां मतुप्' इति मतुप उदात्तत्वम् । बर्हिषि सीदन्तीति बर्हिषदः मासाः । अन्त्यलोपश्चान्दसः । तण्डुलप्रभवा लाजा धानाः । अर्धमासाः पितरोग्निप्वात्ताः । 'आदितश्च' इति चकारादिडभावः, तृतीयासमासे 'संज्ञायामनाचितादीनाम्' इत्युत्तरपदान्तोदात्तत्वम् । अभिवान्या अन्यवत्सात्सि]दोह्या, तस्या दुग्धे सक्तूनोप्य मन्थति स मन्थः । द्रवयुक्तास्सक्तवो मन्थाः । 'अर्ध उपमन्थति'* इत्यादि ब्राह्मणम् ॥
हविश्शेषान् सम्प्लोम्नाय पिण्डान् कृत्वा वेद्यास्तिसृषु स्वक्तिषु
*वा. १-६-८.
For Private And Personal Use Only