________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपेता.
119
VAAVAN
~
~
सुपूर्णा पुनरा पंत । वस्नेव विक्रीणावहा इषमूर्ज शतक्रतो । देहि मे ददामि ते नि मै धेहि नि ते
दधे । निहारमिन्नि मै हरा निहापत । वस्ना । इव । वीति । क्रीणावहै । इषम् । ऊर्जम् । शतक्रतो इति शत-क्रतो। देहि । मे। ददामि । ते । नीति । मे। धेहि । नीति । ते । दधे । निहारमिति नि-हारम् । इत् । नीति ।
हे दर्वि पूर्णा शरनिष्कासस्य पूरिता । ‘वा दान्तशान्त' इति ण्यन्तस्य निपात्यते । ईदृशी परापत इन्द्रं प्रति गच्छ । ततस्सुपूर्णा सुष्टु धनस्य पूर्णा पुनरस्मान् प्रत्यापत आगच्छ । एवं वस्नेव वस्नेन मूल्येनेव । 'सुपां सुलुक्' इत्याकारः । क्रीणावहै इन्द्रश्चाहं च परस्परतः वणिग्वद्विनिमयं करवावहै । किं विक्रीणावहा इत्युच्यते-इषमूर्जमन्नं रसादिकं धनादिकं च; अतोत्रावयोस्त्वं गतागतकारिणी साधनभावमाचरेति । तदेवाहहे शतक्रतो बहुविधकर्मकरणकुशले गतागतसमर्थे ॥ ___ अथ याज्या-देहीत्यनुष्टुप् ॥ देहि मे मह्यं अभिमतं धनं, अहमपि ते तुभ्यं ददामि । निधेहि स्थापय मे मदर्थं, अहमपि ते त्वदर्थं निदधे स्थापयामि । तथा निहारमित् निहारमेव नित्यनिर्दृत्यैव मे मम निहर, अहमपि ते निहारं निर्हत्यनिर्दृत्य निहरामि । नियमेन नितरां निर्हत्य वा समुदा
For Private And Personal Use Only