________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
116
... तैत्तिरीयसंहिता.
का. १. प्र. ८.
धर्मणि तस्यावयजनमसि स्वाहा ।
अक्रन्कर्म कर्मकृतस्सह वाचा मव-यज॑नम् । असि । स्वाहा । अन् । कर्म । कर्मकत इति कर्म-कृतैः । सह । वाचा । मयो
'अस्मदो द्वयोश्च' इति द्वयोर्बहुवचनं. वयमिति । यच्च आवयोरेकस्यान्यतरस्य एनः पृथगेवानया मया वा कृतम्, अधिधमणि स्थानासनादिके क्रियमाणे तन्निमित्तं वा कृतं तस्य सर्वस्यावयजनं नाशनमसि हे करम्भपात्राणि । सामान्यविवक्षायामकवचनं, करम्भेण चेति प्रक्रान्तत्वात् । स्वाहाकरोमि त्वामिति । 'यजमानदेवत्यो वा आहवनीयः '* इत्यादि ब्राह्मणम् ॥
पृथग्गच्छन्तावनुमन्त्रयेते पत्नीयजमानौ-अक्रन्निति । अनुष्टुबेषा ॥ अक्रन् कृतवन्तः । बहुवचनेन द्वावुच्येते । कर्म करम्भपात्रहोमलक्षणं कृतवन्तः । 'मन्त्रे घस' इति च्लेर्लुक् , पुरुपव्यत्ययः, अकार्मेति मध्यमतया विपरिणतिः, 'अस्तं प्रेत' इत्येकवाक्यत्वात् । कर्मकृतः एतस्य कर्मणः कर्तारः एतदेवाक्रन् । 'सुकर्मपाप' इति क्विप् । सह वाचा मन्त्रात्मिकया मयोभुवा मयसस्सुखस्य भावयित्र्या मन्त्रवदेव कर्म कृतवन्तः । भवतेयॆन्तात्विप् , 'बहुलमन्यत्रापि' इति णिलुक् , उपपदसमासः । 'अन्तोदात्तादुत्तरपदात् ' इति तृतीयाया उदात्तत्वं व्यत्ययेन नित्यसमासेपि । यद्वा-मयसां भूर्मयोभूरिति षष्ठीसमासः । 'सावेकाचः' इति वाचस्तृतीयाया उदात्तत्वम् । देवेभ्यो देवार्थ देवनिरवदानार्थम् । ते यूयं सम्प्रति कर्म यथोक्तं कृत्वा अस्तं
*ना. १.६.५.
For Private And Personal Use Only