________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi श्री व्यव-* साधवे प्रायश्चित्तं कथयति यथा च कोरण्टकमुद्यानमुक्तमेवं गुणशिलादिकमपि द्रष्टव्यम् / तत्राप्यभीक्ष्णं वर्धमानसाम्यादीनां तृतीयो हारसूत्रस्य समवसरणात् तासामपि देवतानामभावेऽहत्प्रतिमानां पुरतः स्वप्रायश्चित्तदानपरिज्ञानकुशल आलोचयति / ततः स्वयमेव * विमाग: पीठिका प्रतिपद्यते / प्रायश्चित्तं तासामप्यभावे प्राचीनादिगभिमुखोईतः सिद्धानभिसमीक्ष्य जानन् प्रायश्चित्तदानविधि विद्वान् पालोनंतरः। चयति / मालोच्य च स्वयमेव प्रतिपद्यते प्रायश्चित्तं / स च तथाप्रतिपद्यमानः शुद्ध एव सूत्रोक्तविधिना प्रवृत्तेः यदपि च विराधितं तत्रापि शुद्धः प्रायश्चित्तप्रतिपत्तेरिति / कोरएटकं जहेत्यत्र यथाशब्दोपादानात् कोरण्टकसमुदिशतानान्यप्युद्यानानि // 137 // सूचितानीति प्रकटयिषुराह-- सोहीकरणा दिट्ठा गुणसिलमादीसु जह य साहणं / तो देंति विसोहीतो पच्चुप्पामाय पुच्छति॥ गुणसिलासूद्यानेषु याभिर्देवताभिः साधूना तीर्थकरैर्गणधरैश्वानेकशो विधीयमानानि शोधिकरणानि दृष्टानि, ताः स्वयं ददति प्रयच्छन्ति विशोधीः प्रायश्चित्तानि याः पुनः प्रत्युत्पन्ना देवतास्तो महाविदेहेषु गत्वा तीर्थकरान् पृच्छन्ति पृष्ट्वा च। साधुभ्यः कथयन्ति // // इति श्रीमलयगिरिविरचितायां व्यवहारटीकायां प्रथमउदेशकः समाप्तः / सपीठके प्रथमोद्देशके ग्रन्थाग्रन्थः 10878 // 1 // Basneracoecomecome20000 प्रथम उद्देशो समाप्त Banner // 137 // For Private and Personal Use Only