SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsu Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री व्यव हारपत्रस्य पीठिकानंतरः। // 135 // संविग्ने गीयत्थे सरूवी पच्छाकडे य गीयत्थे / पडिकते अप्भुट्ठिय असती अन्नत्थ तत्थेव // ॐ तृतीवो संविग्ने अन्यसांभोगिकलक्षणे असति अविद्यमाने पार्श्वस्थस्य गीतार्थस्य समीपे आलोचयितव्यम् / तस्मिन्नपि गीतार्थे विभागः। पार्श्वस्थे असति सारूपिकस्य वक्ष्यमाण स्वरूस्य गीतार्थस्य समीपे तस्मिन्नपि सारूपिके असति पश्चात्कृते पश्चात्कृतस्य गीतार्थस्य समीपे आलोचयितव्यम् / एतेषां च मध्ये यस्य पुरत आलोचना दातुमिष्यते / तमभ्युत्थाप्य तदनन्तरंतस्य पुरत आलोचयितव्यम् / अभ्युत्थापनं नाम वन्दनक प्रतीच्छनादिकं प्रत्यभ्युपगमकारापणा / तथा चाह-पडिकंते अभुट्ठियत्ति अभ्युत्थिते वन्दना प्रतीच्छनादिकं प्रतिकृताभ्युपगमे प्रतिक्रान्तो भूयात् नान्यथा / अथ ते पार्श्वस्थादय आत्मानं हीनगुणं पश्यन्तो नाम्युतिष्ठन्ति / तत आह / असतित्ति असति अविद्यमाने अभ्युत्थाने पार्श्वस्थादीनां निषद्यामारचय्य प्रणाममात्रं कृत्वालोचनीयमितरस्य तु पश्चात्कृतस्य इरवरसामायिकारोपणं लिङ्गप्रदानं च कृत्वा यथाविधि तदन्तिके आलोचनीयम् / अन्नत्थ तत्थेवत्ति यदि पार्श्वस्थादिकोऽम्युत्तिष्ठति तदा तेनान्यत्र गन्तव्यं येन प्रवचनलाघवं न भवति / तत्र च गत्वा तमापनप्रायश्चित्तं शुद्धतपो वाहयति / मासादिमुत्कर्षतः षण्मासपर्यवसानं यदि वा प्रागुक्त स्वरूपं परिहारतपः अथ स नाभ्युत्तिष्ठति शुद्धं च तपः तेन प्रायश्चित्तं दत्तं ततस्तत्रैव तपो वहति / एतदेव सति इत्यादिकं व्याख्यानयति / असतीए लिंगकरणं सामाइय इत्तरं कितिकम्मं / तत्थेव य सुद्धतवो गवेसणा जाव सुह दुक्खे // असति अविद्यमाने पश्चात्कृतस्याभ्युत्थाने गृहस्थत्वात् लिङ्गकरणं इत्वरकालं लिङ्गसमर्पणं तथा इत्वरमित्वरकालं सामायिकमारोपणीयं / ततस्तस्यापि निषेद्यामारचय्य कृतिकर्मवन्दनं कृत्वा तत्पुरत आलोचयितव्यं / तदेवमसतीति व्या- // 13 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy