SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग: श्री व्यव-* न्तिके आलोचयेदित्यादि पूर्ववदेष सूत्रसंचेपार्थः / अधुना नियुक्तिभाष्यविस्तरः / तत्र यदुक्तमकृत्यं स्थान सेवित्वेति हारसूत्रस्य / तद्विषयमुपदर्शयतिपीठिका- अन्नयरं तु अकिच्चं मूलगुणे चेव उत्तरगुणे यामूलं च सव्वदेसं एमेव य उत्तरगुणेसु // नंतर। अन्यतरदकृत्यं पुनः सूत्रोक्तं मूलगुणे मूलगुणविषयमुत्तरगुणे वा उत्तरगुणविषयं वा / तत्र मूलं मूलगुणविषयं सर्व देशं // 127 // वा / सर्वथा मूलगुणस्योच्छेदेन देशतो वा इत्यर्थः / एवमेवानेनैव प्रकारेण उत्तरगुणेष्वपि द्वैविध्यं भावनीयं / तद्यथा-उत्तरगुणस्यापि सर्वतो देशतो वा उच्छेदेनेति तत्रैव व्याख्यानान्तरमाहअहवा पणगादीयं मासादीवावि जाव छम्मासा। एवं तवारिहं खलु च्छेदादि चउण्हवेगयरं // अथवेति अकृत्यस्थानस्य प्रकारान्तरतोपदर्शने पञ्चकादिकं रात्रिंदिवपञ्चक प्रभृति प्रायश्चित्त स्थानमकृत्यं स्थानं, यदि वा मासादि तच्च तावत् यावत् षण्मासाः। एतत्खलु प्रकृत्यस्थानं तपोऽहं तपोरूपप्रायश्चित्ताई यदि वा च्छेदादीनां चतुर्णा प्रायश्चित्तस्थानमकृत्यस्थानं तदेवमकृत्यस्थानं व्याख्याय सम्प्रति यथा स्वकीयाचार्योपाध्यायादीनामदर्शनं संभवति तथा प्रतिपादयतिश्राउय वाघायं वा दुल्लहगीयं च पत्तकालं तु / अपरक्कममासज्ज व सुत्तमिणं तूदिसा जाव // स्वकीयानामाचार्योपाध्यायानामायुषो व्याघातोऽभवत् जीवितस्य बहुधातसंकुलत्वात् / यदि वा तस्यैवालोचकस्या // 127 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy