________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्प्रति कुशीलादीनां प्रायश्चित्तविधिमतिदेशत आहपासत्थे श्रारोवण श्रोहविभागेण वलिया पुवं / सा चेव निरवसेसा कुशीलमादीण नायव्वा // | यैव पूर्व पार्श्वस्थे प्रायश्चित्तस्यौधेन विभागेन चारोपणाप्रदानमुपवर्णिता सैव निरवशेषा ओघेन विभागेन च ज्ञातव्या, यत्र तु विशेषः स तत्र वक्ष्यते, / गतं यथाच्छन्दः सूत्रमिदानी कुशीलसूत्रं वक्तव्यं, तच्च प्राग्वद्भावनीयम् अधुना * कुशील प्ररूपणामाह| एतो तिविहकुसीलं तमहं वोच्छामि अहाणुपुठवीए। दसणनाणचरित्ते तिविह कुसीलो मुणेयव्वो॥ इतो यथाच्छन्दः प्ररूपणानन्तरं त्रिविधं कुशीलमहमानुपूर्व्या वक्ष्यामि / यथा प्रतिज्ञातमेव करोति, दंसणेत्यादि त्रिविधः कुशीलो ज्ञातव्यः / तद्यथा-दर्शने ज्ञाने चारित्रे च / एतदेव व्याचिरल्यासुरिदमाह नाणे नाणायारं जोउ विराहेइ कालमादीयं / दसणे दंसणायारं चरणकुसीलो इमो होइ॥ यो ज्ञानाचारं कालादिकं कालेविणए इत्यादिरूपं विराधयति स ज्ञाने ज्ञानकुशील उच्यते / यस्तु दर्शनाचारं निःशङ्कित-* त्वादिकं विराधयति स दर्शने दर्शनकुशीलः / चरणकुशीलोऽयं वक्ष्यमाणस्वरूपो भवति तमेवाहकोउय भूतिकम्मे पसिणापसिणे निमित्तमाजीवी / कककुरुयाय लक्षण मुवजीवति विजमंतादा॥ कौतुकं नाम आश्चर्य यथा मायाकारको मुखे गोलकान् प्रक्षिप्य कर्णेन निष्काशयति, / नाशिकया वा तथा मुखा For Private and Personal Use Only