________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नया कष्टया युक्त्यसंगतया चाण्डपरिकल्पनया १, एवमस्त्विति चेत् तथा केचिदभिहितवन्तो यथा ब्रह्मणो मुखाद्राह्मणाः समजायन्त बाहुभ्यां क्षत्रिया ऊरुभ्यां वैश्याः पद्भ्यां शूद्रा इति, एतदप्ययुक्तिसंगतमेव, यतो न मुखादेः कस्यचिदुत्पत्तिर्भवन्त्युपलक्ष्यते, अथापि स्यात्तथा सति वर्णानामभेदः स्याद्, एकस्मादुत्पत्तेः, तथा ब्राह्मणानां कठतैत्तिरीयककलापादिकश्च भेदो न स्यादू, एकस्मान्मुखादुत्पत्तेः एवं चोपनयनादिसद्भावो न भवेद् भावे वा स्वस्रादिग्रहणापत्तिः स्याद् एवमाद्यनेकदोषदुष्टत्वा| देवं लोकोत्पत्तिर्नाभ्युपगन्तव्या । ततश्च स्थितमेतत्-त एवंवादिनो लोकस्यानाद्यपर्यवसितस्योर्ध्वाधश्चतुर्दशरज्जुप्रमाणस्य वैशाखस्थानस्थकटिन्यस्तकरयुग्मपुरुषाकृतेरधोमुख मल्लका का रसप्तपृथिव्यात्मकाधोलोकस्य स्थालाकारासंख्येयद्वीपसमुद्राधारमध्यलोकस्य | मल्लकसमुद्रकाकारोर्ध्वलोकस्य धर्माधर्माकाशपुद्गलजीवात्मकस्य द्रव्यार्थतया नित्यस्य पर्यायापेक्षया क्षणक्षयिण उत्पादव्ययधौव्यापादितद्रव्यसतत्त्वस्यानादिजीव कर्मसंबन्धापादितानेकभवप्रपञ्चस्याष्टविध कर्मविप्रमुक्ताऽऽत्मलोकान्तोपलक्षितस्य सन्तो मृषा वदन्तीति ॥ ९ ॥ इदानीमेतेषामेव देवोप्तादिवादिनामज्ञानिखं प्रसाध्य तत्फलदिदर्शयिषयाऽऽह
तत्त्वमजानानाः
अमणुन्नसमुप्पायं, दुक्खमेव विजाणिया । समुप्पायमजाणंता, कहं नायंति संवरं ? ॥ १० ॥
मनोऽनुकूलं मनोज्ञं— शोभनमनुष्ठानं न मनोज्ञममनोज्ञम् — असदनुष्ठानं तस्मादुत्पादः – प्रादुर्भावो यस्य दुःखस्य तदमनोज्ञसमुत्पादम् एवकारोऽवधारणे, स चैवं संबन्धनीयः - अमनोज्ञसमुत्पादमेव दुःखमित्येवं 'विजानीयात्' अवगच्छेत्प्राज्ञः, एतदुक्तं भवति - खकृतासदनुष्ठानादेव दुःखस्योद्भवो भवति नान्यस्मादिति, एवं व्यवस्थितेऽपि सति अनन्तरोक्तवादिनोऽसदनुष्ठानो
For Private And Personal