SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कारणपूर्वकत्वमात्रेण तु कार्य व्याप्तं, कार्यविशेषोपलब्धौ कारणविशेषप्रतिपत्तिर्गृहीतप्रतिबन्धस्यैव भवति, न चात्यन्तादृष्टे तथा प्रतीतिर्भवति, घटे तत्पूर्वकत्वं प्रतिपन्नमिति चेत् युक्तं तत्र घटस्य कार्यविशेषखप्रतिपत्तेः, न खेवं सरित्समुद्रपर्वतादौ बुद्धिमत्कारणपूर्वकलेन संबन्धो गृहीत इति, नन्वत एव घटादिसंस्थानविशेषदर्शनवत्पर्वतादावपि विशिष्टसंस्थान दर्शना बुद्धिमत्कारणपूर्वकत्वस्य साधनं क्रियते, नैतदेवं युक्तं, यतो न हि संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वकत्वावगतिर्भवति, यदि तु स्यात् मृद्वि| कारखाद्वल्मीकस्यापि घटवत्कुम्भकारकृतिः स्यात्, तथा चोक्तम् — “अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित् । घटादेः कर| णात्सिद्धयेद्वल्मीकस्यापि तत्कृतिः ॥ १ ॥” इति, तदेवं यस्यैव संस्थानविशेषस्य बुद्धिमत्कारणपूर्वकत्वेन संबन्धो गृहीतस्तद्दर्शनमेव | तथाविधकारणानुमापकं भवति न संस्थानमात्रमिति, अपिच - घटादिसंस्थानानां कुम्भकार एव विशिष्टः कर्तोपलक्ष्यते नेश्वरः, | यदि पुनरीश्वरः स्यात् किं कुम्भकारेणेति ?, नैतदस्ति, तत्रापीश्वर एव सर्वव्यापितया निमित्तकारणलेन व्याप्रियते, नन्वेवं हानिरष्टकल्पना स्यात्, तथा चोक्तम् – “शस्त्रौषधादिसंबन्धाच्चैत्रस्य व्रणरोहणे । असंबद्धस्य किं स्थाणोः, कारणखं न कल्प्यते १ ॥ १ ॥” तदेवं दृष्टकारणपरित्यागेनादृष्टपरिकल्पना न न्याय्येति, अपिच - देवकुलावटादीनां यः कर्ता स सावयवोऽव्याप्यनित्यो दृष्टः, तद्दृष्टान्तसाधितश्वेश्वर एवंभूत एवं प्राप्नोति, अन्यथाभूतस्य च दृष्टान्ताभावाद्वयात्यसिद्धेर्नानुमान - मिति, अनयैव दिशा स्थिखाप्रवृत्त्यादिकमपि साधनमसाधनमायोज्यं, तुल्ययोगक्षेमखादिति । यदपि चोक्तं ' प्रधानादिकृतोऽयं लोक' इति, तदप्यसंगतं, यतस्तत्प्रधानं किं मूर्तममूर्त वा ?, यद्यमूर्त न ततो मकराकरादेर्मूर्तस्योद्भवो घटते, न ह्याकाशात्किञ्चिदुत्पद्यमानमालक्ष्यते, मूर्तमूर्तयोः कार्यकारणविरोधादिति, अथ मूर्तं तत्कुतः समुत्पन्नं?, न तावत्स्वतो लोकस्यापि तथोत्पत्ति For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy