________________
Shri Mahavi
d hana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a
nmandir
se
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
॥४२६॥
| स्वरूपं, तद्यथा-सामान्य विशेषात्मकस्य वस्तुनो नैकेन प्रकारेणावगमः-परिच्छेदो निगमस्तत्र भवो नैगमो, नैकगमो वा नैगमः-18 ७ नाळमहासामान्यापान्तरालसामान्यविशेषाणां परिच्छेदकः, तत्र महासामान्यं सर्वपदार्थानुयायिनी सत्ता अपान्तरालसामान्यं द्रव्यखजी- |न्दीयाध्य. वखाजीवखादिकं, विशेषाः परमाण्वादयस्तद्गता वा शुक्लादयो गुणाः, तदेतत्रितयमप्यसाविच्छतीति, निलयनप्रस्थकादिदृष्टान्तै-| रनुयोगद्वारप्रसिद्धैस्तत्स्वरूपमवसेयम् , अयं च नैगमः सामान्यविशेषात्मकवस्तुसमाश्रयणेऽपि न सम्यग्दृष्टिः, भेदेनैव सामान्यविशेषयोराश्रयणात् , तन्मताश्रितनैयायिकवैशेषिकवत् । तथा संग्रहोऽप्येवंवरूपः, तद्यथा-सम्यक् पदार्थानां सामान्याकारतया ग्रहणं सङ्ग्रहः, तथाहि-अप्रच्युतानुत्पन्न स्थिरैकखभावमेव सत्तारूपं वस्खसावभ्युपगच्छति, सत्तातो व्यतिरिक्तस्त्रावस्तुत्वं खरविषाणस्येव, स च संग्रहः सामान्यविशेषात्मकस्य वस्तुनः सामान्यांशस्यैवाश्रयणान्मिथ्यादृष्टिः, तन्मताश्रितसांख्यवत् । व्यवहारनयस्य तु स्वरूपमिदं, तद्यथा-यथालोकग्राहमेव वस्तु, यथा च शुष्कतार्किकैः स्वाभिप्रायकृतलक्षणानुगतं तथाभूतं वस्तु न भवत्येव, नहि प्रतिलक्षणमर्थानामात्मभेदो भवति, किं तर्हि ?, यथा यथा लोकेन विशिष्टभूयिष्ठतयार्थक्रियाकारि वस्तु व्यवहियते | तथैव तद्वस्वित्याबालगोपालाङ्गनादिप्रसिद्धत्वाद्वस्तुखरूपस्येति, अयमप्युत्पादव्ययधौव्ययुक्तस्य वस्तुनोऽनभ्युपगमात् मिथ्यादृष्टिः, तथाविधरथ्यापुरुषवदिति । ऋजुसूत्रमतं विदं-ऋजु-प्रगुणं तच विनष्टानुत्पन्नतयाऽतीतानागतवपरित्यागेन वर्तमानकालक्षण
॥४२६॥ | भावि यद्वस्तु तत्सूत्रयति-प्रतिपादयत्याश्रयतीति ऋजुसूत्रः, तस्यैवार्थक्रियाकारितया वस्तुखलक्षणयोगादिति, अयमपि सामान्यविशेषोभयात्मकस्य वस्तुनः सामान्यांशपरित्यागेन विशेषांशस्यैव समाश्रयणाच्छौद्धोदनिवन्न सम्यग्दृष्टिः, कारणभूतद्रव्यानभ्युपगमेन तदाश्रितविशेषस्यैवाभावादिति । शब्दनयस्वरूपं खिदं, तद्यथा-शब्दद्वारेणैवास्सार्थप्रतीत्यभ्युपगमाल्लिङ्गवचनसाधनोप
For Private And Personal