________________
Shri Maha Aradhana Kendra
www.kobatirth.org
तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, तओ आउं विप्पजहंति विप्पजहिता तत्थ आरेणं चैव जे तसा पाणा जेहिं समणोवासगस्स आयाणसो जाव तेसु पञ्चायति, जेहिं समणोवासगस्स सुपञ्चक्खायं भवइ, ते पाणावि जाव अपि भेदे से० ॥ (सूत्रं ७९ ) ॥
पुनरपि गौतमस्वाम्युदकं प्रतीदमाह - तद्यथा - बहुभिः प्रकारैखससद्भावः संभाव्यते, ततश्वाशून्यस्तैः संसारः, तदशून्यत्वे न निर्विषयं श्रावकस्य त्रसवधनिवृत्तिरूपं प्रत्याख्यानं । तदधुना बहुप्रकारत्रससंभूत्याऽशून्यतां संसारस्य दर्शयति — भगवानाह 'सन्ति' विद्यन्ते शान्तिप्रधाना वा एके केचन श्रमणोपासका भवन्ति तेषां चेदमुक्तपूर्वं भवति — संभाव्यते च श्रावकाणामेवंभूतस्य वचसः संभव इति, तद्यथा- न खलु वयं शक्नुमः प्रव्रज्यां ग्रहीतुं, किंतु ? वयं णमिति वाक्यालङ्कारे चतुर्द्दश्यष्टमीपौर्णमासीषु संपूर्ण पौषधमाहारशरीरसत्कारब्रह्मचर्याव्यापाररूपं पौषधं सम्यगनुपालयन्तो विहरिष्यामः, तथा स्थूलप्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहं प्रत्याख्यास्यामो 'द्विविध' मिति कृतकारितप्रकारद्वयेन अनुमतेः श्रावकस्याप्रतिषिद्धत्वात् तथा | 'त्रिविधेने 'ति मनसा वाचा कायेन च, तथा 'मा' इति निषेधे 'खलु' इति वाक्यालङ्कारे मदर्थं पचनपाचनादिकं पौषधस्थस्य मम कृते मा र्काष्ट, तथा परेण मा कारयत तत्राप्यनुमतावपि सर्वथा यदसंभवि तत्प्रत्याख्यास्यामः, ते एवंभूतकृतप्रतिज्ञाः | सन्तः श्रावकाः अभुक्ताऽपीलालाला च पौषधोपेतखादासन्दीपीठिकातः प्रत्यारुह्य अवतीर्य सम्यक् पौषधं गृहीला कालं कृतवन्तः, ते तथाप्रकारेण कृतकालाः सन्तः किं सम्यक् कृतकाला उतासम्यगिति १, कथं वक्तव्यं स्यादिति १, एवं पृष्टैर्निर्ग्रन्थैरव| श्यमेवं वक्तव्यं स्यात् सम्यक्कालगता इति, एवंच कालगतानामवश्यंभावी तेषां देवलोकेषूत्पादः, तदुत्पन्नथ त्रस एव, ततथ कथं
सूत्रकृ. ७१
For Private And Personal
Acharya Shri Kailashsa Gyanmandir