________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a
nmandir
एeeeeeeeeeeeeee
गुत्तस्स लिसिस्सामो, ते एवं संखवेंति ते एवं संखं ठवयंति ते एवं संखं ठावयंति नन्नत्थ अभिओएणं गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, तंपि तेसिं कुसलमेव भवइ ॥ (सू०७५)
सद्वाचं सवादं वोदका पेढालपुत्रो भगवन्तं-गौतममेवमवादीत् , तद्यथा-हे आयुष्मन् गौतम ! कतरान्प्राणिनो यूयं वदथ, त्रसा | एव ये प्राणाः-प्राणिनस्त एव त्रसाःप्राणा इत्युतान्यथेति, एवं पृष्टो भगवान् गौतमस्तमुदकं सद्वाचं पेढालपुत्रमेवमवादीत , तद्यथाआयुष्मन्नुदक ! यान्प्राणिनो यूयं वदथ त्रसभूताः-सखेनाविर्भूताःप्राणिनो नातीता नाप्येष्याः, किं तु ? वर्तमानकाल एव त्रसाः प्राणा इति, तानेव वयं वदामस्त्रसाः-त्रसवं प्राप्तास्तत्कालवर्तिन एव त्रसाः प्राणा इति, एतदेव व्यत्ययेन बिमणिषुराह-'जे वय'मित्यादि, यान् वयं वदामनसा एव प्राणास्त्रसाः प्राणास्तानेव यूयमेवं वदथ-त्रसभूता एव प्राणास्त्रसभूताः प्राणाः, एवं च व्यवस्थिते एते अनन्तरोक्ते द्वे अपि स्थाने एकार्थे-तुल्ये भवतो, न ह्यत्रार्थभेदः कश्चिदस्त्यन्यत्र शब्दभेदादिति, एवं च व्यवस्थिते किमायुष्मन् ! युष्माकमयं पक्षः सुष्टु प्रणीततरो-युक्तियुक्तः प्रतिभासते ?, तद्यथा-त्रसभूता एव प्राणास्त्रसभूताः || प्राणा इति, अयं तु पक्षो दुष्प्रणीततरो 'भवति' प्रतिभासते भवतां ?, तद्यथा-सा एव प्राणास्त्रसाः प्राणाः, सन्ति चैकार्थ| त्वेन (सति चैकार्थत्वे ) भवतां कोऽयं व्यामोहो ? येन शब्दभेदमात्रमाश्रित्यात एकं पक्षमाकोशयथ द्वितीयं खभिनन्दथ । इति । तदयमपि तुल्येऽप्यर्थे सत्येकस्य पक्षस्याक्रोशनमपरस्य सविशेषणपक्षस्याभिनन्दनमित्येष दोषाभ्युपगमो भवतां 'नो नैयायिको न न्यायोपपनो भवति, उभयोरपि पक्षयोः समानखात् , केवलं सविशेषणपक्षे भूतशब्दोपादानं मोहमावहतीति ।। यच भवताऽस्माकं प्राग्दोषोद्भावनमकारि, तद्यथा-सानां वधनिवृत्तौ तदन्येषां वधानुमतिः स्यात् साधोः, तथा भूतशब्दानु
For Private And Personal