SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ Shri Manc e radhana Kendra www.kcbatrth.org Acharya Shri Kailasha bo yanmandar | यतीत्यनुतापिका तां, तथाभूतां च खलु ते भाषा भाषन्ते, अन्यथाभाषणे ह्यपरेण जानता बोधितस्य सतोऽनुतापो भवतीत्य| तोऽनुतापिकेत्युच्यत इति । पुनरपि तेषां सविशेषणप्रत्याख्यानवतामुल्वणदोषोद्विभावयिषयाऽऽह-'अन्भाइक्खंती'त्यादि, ते हि सविशेषणप्रत्याख्यानवादिनो यथावस्थितं प्रत्याख्यानं ददतः साधून गृह्णतश्च श्रमणोपासकानभ्याख्यान्ति-अभूतदोषोद्भा|वनतोऽभ्याख्यानं ददति । किंचान्यत-'जेहिंवि'इत्यादि, येष्वप्यन्येषु प्राणिषु भूतेषु जीवेषु सत्त्वेषु विषयभूतेषु विशिष्य ये संयम कुर्वन्ति संयमयन्ति, तद्यथा-ब्राह्मणो न मया हन्तव्य इत्युक्ते स यदा वर्णान्तरे तिर्यक्षु वा व्यवस्थितो भवति तद्वधे ब्राह्मणवध आपद्यते, भूतशब्दाविशेषणात , तदेवं तान्यपि विशेषव्रतानि सूकरो मया न हन्तव्य इत्येवमादीनि ते भूतशब्दविशेषणवादिनोऽभ्याख्यान्ति-दूषयन्ति । किमित्यत आह–'कस्स ण'मित्यादि कस्माद्धेतोस्तदसद्भूतं दूषणं भवतीति, | यस्मात्सांसारिकाः खलु प्राणाः परस्परजातिसंक्रमणभाजो यतस्ततस्त्रसाः प्राणिनः स्थावरखेन प्रत्यायान्ति स्थावराश्च त्रसबेनेति । वसकायाच सर्वात्मना वसायुष्कं परित्यज्य स्थावरकाये तद्योग्यकर्मोपादानादुत्पद्यन्ते, तथा स्थावरकायाच तदायुष्कादिना कर्मणा | विमुच्यमानास्त्रसकाये समुत्पद्यन्ते, तेषां च त्रसकाये समुत्पन्नानां स्थानमेतत्रसकायाख्यमघात्यम्-अघाताह भवति, यसात्तेन |श्रावकेण त्रसानुद्दिश्य स्थूलप्राणातिपातविरमणं कृतं, तस्य तीव्राध्यवसायोत्पादकखाल्लोकगर्हितबाचेति, तत्रासौ स्थूलप्राणातिपातानिवृत्तः, तन्निवृत्त्या च त्रसस्थानमघात्यं वर्तते, स्थावरकायाच्चानिवृत्त इति तद्योग्यतया तत्स्थानं घात्यमिति । तदेवं भवद भिप्रायेण विशिष्टसत्त्वोद्देशेनापि प्राणातिपातनिवृत्तौ कृतायामपरपर्यायापन प्राणिनं व्यापादयतो व्रतभङ्गो भवति, ततश्च न कस्य18 चिदपि सम्यग्व्रतपालनं स्पादित्येवमभ्याख्यातम्-असद्भूतदोषोद्भावनं भवन्तो ददति । यदपि भवद्भिर्वर्तमानकालविशेष For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy