SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ Shri Mahaviradhana Kendra www.kobatirth.org Acharya Shri Kailashsagsyanmandir भूतस्यान्तरात्मन एवाभाव:, तथाऽस्माकमपि पञ्च यमाः अहिंसादयो भवतां च त एव पञ्च महाव्रतरूपाः, तथेन्द्रियनोइन्द्रियनियमो ऽप्यावयोस्तुल्य एव, तदेवमुभयस्मिन्नपि धर्मे बहुसमाने सम्यगुत्थानोत्थिता यूयं वयं च तस्माद्ध में सुष्ठु स्थिताः पूर्वस्मिन् काले वर्तमाने एष्ये च यथागृहीतप्रतिज्ञानिर्वोढारो, न पुनरन्ये, यथा व्रतेश्वरयागविधानेन प्रव्रज्यां मुक्तवन्तो मुञ्चन्ति मोक्षन्ति चेति, तथाऽऽचारप्रधानं शीलमुक्तं यमनियमलक्षणं न फल्गु कल्ककुहका जीवनरूपम् अथानन्तरं ज्ञानं च मोक्षाङ्गतयाऽभिहितं तच्च | श्रुतज्ञानं केवलाख्यं च यथास्वमावयोर्दर्शने प्रसिद्धं, तथा संपर्यन्ते – स्वकर्मभिर्भ्राम्यन्ते प्राणिनो यस्मिन्स संपरायः - संसार| स्तस्मिंश्रावयोर्न विशेषोऽस्ति, तथाहि--यथा भवतां कारणे कार्य नैकान्तेनासदुत्पद्यते अस्माकमपि तथैव द्रव्यात्मतया नित्यत्वं भवद्भिरप्याश्रितमेव, तथोत्पादविनाशावपि युष्मदभिप्रेतावाविर्भावतिरोभावाश्रयादस्माकमपीति ॥ ४६ ॥ पुनरपि त एवैकदण्डिनः सांसारिक जीवपदार्थसाम्योपादनायाहु: अवतरूवं पुरिसं महंतं, सणातणं अक्खयमवयं च । सर्व्वसु भूतेसुवि सङ्घतो से, चंदो व ताराहिं समत्तरूवे ॥ ४७ ॥ एवं ण मिजंति ण संसरंती, ण माहणा खत्तिय वेस पेसा । कीडा य पक्खी य सरीसिवाय, नरा य सबै तह देवलोगा ॥ ४८ ॥ पुरि शयनात्पुरुषो - जीवस्तं यथा भवन्तोऽभ्युपगतवन्तस्तथा वयमपि, तमेव विशिनष्टि-अमूर्त्तखादव्यक्तं रूपं - स्वरूपमस्यासावव्यतरूपः तं, करचरणशिरोग्रीवाद्यवयवतया स्वतोऽनवस्थानात्, तथा 'महान्तं' लोकव्यापिनं तथा 'सनातनं' शाश्वतं द्रव्या१ वक्ष्यमाणानां विशेषणानां सापेक्षमभ्युपगमापेक्षया । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy