SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ Shri M W Aradhana Kendra www.kobatirth.org Acharya Shri Kailashadit y anmandir eceneceseseakceseroececes सया जए तिबेमि ॥ (सूत्रं ६२ )॥ वियसुयक्खंधस्स आहारपरिण्णा णाम तईयमज्झयणं समत्तं ॥ अथापरमेतदाख्यातं, तद्यथा-सर्वे 'प्राणाः' प्राणिनोत्र च प्राणिभूतजीवसत्त्वशब्दाः पर्यायत्वेन द्रष्टव्याः, कथश्चिद्भेदं ६ & वाऽऽश्रित्य व्याख्येयाः, ते च नानाविधयोनिका नानाविधासु योनिघृत्पद्यन्ते, नारकतिर्यङ्नरामराणां परस्परगमनसंभवात् , ते च यत्र यत्रोत्पद्यन्ते तत्तच्छरीराण्याहारयन्ति, तदाहारवन्तश्च तत्रागुप्तास्तद्वारायाततत्कर्मवशगा नारकतिर्यनरामरगतिषु ४ जघन्यमध्यमोत्कृष्टस्थितयो भवन्ति, अनेनेदमुक्तं भवति-यो यादृगिह भवे स तादृगेवामुत्रापि भवतीत्येतन्निरस्तं भवति, अपितु कर्मोपगाः कर्मनिदांनाः कर्मायत्तगतयो भवन्ति, तथा तेनैव कर्मणा सुखलिप्सवोऽपि तद्विपर्यासं-दुःखमुपगच्छन्तीति ॥ साम्प्रतमध्ययनार्थमुपसंजिघृक्षुराह-यदेतन्मयाऽऽदितः प्रभृत्युक्तं, तद्यथा-यो यत्रोत्पद्यते स तच्छरीराहारको भवति आहारागुप्तश्च कर्मादत्ते कर्मणा च नानाविधासु योनिषु अरहट्टघटीन्यायेन पौनःपुन्येन पर्यटतीत्येवमाजानीत यूयं, एतद्विपर्यासे दुःखमुपगच्छन्तीति । एतत्परिज्ञाय च सदसद्विवेक्याहारगुप्तः पञ्चभिः समितिभिः समितो यदिवा सम्यग्ज्ञानादिके मार्गे इतोगतः समितः तथा सह हितेन वर्तते सहितः सन् सदा-सर्वकालं यावदुच्छासं तावद्यतेत सत्संयमानुष्ठाने प्रयत्नवान् भवेदिति ।। इतिः परिसमाप्त्यर्थे, ब्रवीमीतिपूर्ववत् । गतोऽनुगमः । साम्प्रतं नयाः, ते च प्राग्वद् द्रष्टव्याः ॥ समाप्तमाहारपरिज्ञाख्यं तृतीयमध्ययनम् ॥३॥ इति श्रीसूत्रकृदङ्गे द्वितीयश्रुतस्कन्धे आहारपरिज्ञाख्यं तृतीयमध्ययनं सवृत्तिकं समाप्तिमगात् For Private And Personal R
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy