________________
Shri MET
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
seeeee
खलुलस्स तप्पत्तिय साकजंति आहिज्जइ, दुवालसमे किरियट्ठाणे लोभवत्तिएत्ति आहिए ॥ इच्चैयाई दुवालस किरियट्ठाणाइं दविएणं समणेण वा माहणेण वा सम्मं सुपरिजाणिअबाई भवंति ॥ सूत्रं २८॥ II
एकादशात् क्रियास्थानादनन्तरमथापरं द्वादशं क्रियास्थानं लोभप्रत्ययिकमाख्यायते, तद्यथा-य इमे वक्ष्यमाणा अरण्ये वसन्तीत्यारण्यकाः, ते च कन्दमूलफलाहाराः सन्तः केचन वृक्षमुले वसन्ति, केचनावसथेषु-उटजाकारेषु गृहेषु, तथा अपरे प्रामादिकमुपजीवन्तो ग्रामस्यान्ते-समीपे वसन्तीति नामान्तिकाः, तथा 'कचित्' कार्य मण्डलप्रवेशादिके रहस्सं येषां ते कचिद्राहसिकाः, ते च 'न बहुसंयता' न सर्वसावद्यानुष्ठानेभ्यो निवृत्ताः, एतदुक्तं भवति-न बाहुल्येन त्रसेषु दण्डसमारम्भं विदधति, एकेन्द्रियोपजीविनस्वविगानेन तापसादयो भवन्तीति, तथा 'न बहुविरता' न सर्वेष्यपि प्राणातिपातविरमणादिषु व्रतेषु वर्तन्ते, किंतु ? द्रव्यतः कतिपयव्रतवर्तिनो न भावतो, मनामपि तत्कारणस सम्यग्दर्शनस्याभावादित्यभिप्रायः, इत्येतदाविभावयितुमाह'सबपाणे'त्यादि, ते ह्यारण्यकादयः सर्वप्राणिभूतजीवसत्त्वेभ्य आत्मना-स्वतः अविरताः-तदुषमर्दकारम्भादविरता इत्यर्थः। तथा ते पापण्डिका आत्मना-खतो बहुनि सत्या(त्य)मृषाभूतानि वाक्यानि 'एवं वक्ष्यमाणनीत्या विशेषेण 'युञ्जन्ति प्रयुञ्जन्ति बुवत इत्यर्थः, यदिवा सत्यान्यपि तानि प्राण्युपमर्दकलेन मृषाभूतानि सत्या(त्य)मृषाणि, एवं ते प्रयुञ्जन्तीति दर्शयति-तद्यथा| अहं ब्राह्मणखाद्दण्डादिभिर्न हन्तव्योऽन्ये तु शूद्रखाद्धन्तव्याः, तथाहि तद्वाक्यं-'शूद्रं व्यापाद्य प्राणायाम जपेत् , किंचिद्वा दद्यात् ॥ | तथा क्षुद्रसत्वानामनस्थिकानां शकटभरमपि व्यापाद्य ब्रामणं भोजये(दि)'त्यादि, अपरं चाहं वर्णोत्तमलात नाज्ञापयितव्यो |ज्ये तु मचोऽधमाः समाज्ञापयितव्याः, तथा नाई परितापयितव्योऽन्ये तु परितापयितव्याः, तथाऽहं वेतनादिना कर्मकरणाय न
elesed
।
For Private And Personal