SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Adhana Kendra www.kobatirth.org Acharya Shri Kailashsagalanmandir | स्याभावादित्यभिप्रायः । तथा 'द्विधाऽपीति द्रव्यतो भावतश्थ, तत्र द्रव्यस्रोतांसि यथास्वं विषयेष्विन्द्रियप्रवृत्तयः भावस्रोतांसि तु शब्दादिष्वेवानुकूलप्रतिकूलेषु रागद्वेषोद्भवास्तान्युभयरूपाण्यपि स्रोतांसि संवृतेन्द्रियतया रागद्वेषाभावाच्च परिच्छिन्नानि येन स परिच्छिन्नस्रोताः, तथा नो पूजासत्कारलाभार्थी किंतु निर्जरापेक्षी सर्वास्तपश्चरणादिकाः क्रिया विदधाति, एतदेव दर्शयतिधर्मः श्रुतचारित्राख्यस्तेनार्थः स एव वार्थो धर्मार्थः स विद्यते यस्यासौ धमार्थीति, इदमुक्तं भवति न पूजाद्यर्थं क्रियासु प्रव| र्तते अपितु धर्मार्थीति । किमिति १, यतो धर्म यथाक्तत्फलानि च खर्गावाप्तिलक्षणानि सम्यक् वेत्ति, धर्म च सम्यग् जानानो | यत्करोति तद्दर्शयति-नियागो - मोक्षमार्गः सत्संयमो वा तं सर्वात्मना भावतः प्रतिपन्नः नियागपडिवन्नोत्ति, तथाविधश्च यत्कुर्यात् | तदाह - 'समि (म) यं' ति समतां समभावरूपां वासीचन्दनकल्पां 'चरेत्' सततमनुतिष्ठेत् । किंभूतः सन् ?, आह-दान्तो द्रव्यभूतो व्युत्सृष्टकायच, एतद्गुणसमन्वितः सन् पूर्वोक्तमाहनश्रमणभिक्षुशब्दानां यत् प्रवृत्तिनिमित्तं तत्समन्वितश्च निर्ग्रन्थ इति वाच्यः । तेऽपि माहनादयः शब्दा निर्ग्रन्थशब्दप्रवृत्तिनिमित्ताविनाभाविनो भवन्ति, सर्वेऽप्येते भिन्नव्यञ्जना अपि कथञ्चिदेकार्था | इति ॥ ५ ॥ साम्प्रतमुपसंहारार्थमाह- सुधर्मस्वामी जम्बूस्वामिप्रभृतीनुद्दिश्येदमाह - 'से' इति तद्यन्मया कथितमेवमेव जानीत यूयं नान्यो मद्वचसि विकल्पो विधेयः यस्मादहं सर्वज्ञाज्ञया ब्रवीमि । न च सर्वज्ञा भगवन्तः परहितैकरता भयात्रातारो रागद्वेषमोहान्यतरकारणाभावादन्यथा ब्रुवते, अतो यन्मयाऽऽदितः प्रभृति कथितं तदेवमेवावगच्छतेति । इतिः परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, साम्प्रतं नयाः, ते च नैगमादयः सप्त, नैगमस्य सामान्यविशेषात्मकतया संग्रहव्यवहारप्रवेशात्संग्रहादयः पद, समभिरूढेत्थंभूतयोः शब्दनयप्रवेशान्नैगमसंग्रहव्यवहारर्जुमूत्रशब्दाः पञ्च, नैगमस्याप्यन्तर्भावाच्चत्वारो, | For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy