SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ Shri Marath Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir eeeeeeeeeeeeeeeeeeeeeo ष्टानुष्ठानेन मोक्षस्य संमुखीभूता-घातिचतुष्टयक्षयक्रियया उत्पन्नदिव्यज्ञानाः शाश्वतपदसाभिमुखीभूताः, क एवंभूता इत्याहये विपच्यमानतीर्थकुन्नामकर्माणः समासादितदिव्यज्ञाना 'मार्ग मोक्षमार्ग ज्ञानदर्शनचारित्ररूपम् 'अनुशासन्ति' सत्त्वहिताय प्राणिनां प्रतिपादयन्ति स्वतश्चानुतिष्ठन्तीति ॥ १०॥ अनुशासनप्रकारमधिकृत्याह-अनुशास्यन्ते-सन्मार्गेऽवतार्यन्ते सदसद्विवेकतः प्राणिनो येन तदनुशासनं-धर्मदेशनया सन्मार्गावतारणं तत्पृथक् पृथक् भव्याभव्यादिषु प्राणिषु क्षित्युदकवत् स्वाशयव-18 | शादनेकधा भवति, यद्यपि च अभव्येषु तदनुशासनं न सम्यक् परिणमति तथापि सर्वोपायज्ञस्यापि न सर्वज्ञस्य दोषः, तेषामेव | स्वभावपरिणतिरियं यया तद्वाक्यममृतभूतमेकान्तपथ्यं समस्तद्वन्द्वोपघातकारि न यथावत् परिणमति, तथा चोक्तम्-"सद्धर्मबी-18 जवपनानघकौशलस्य, यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु, सूर्याशवो मधुकरीचरणावदाताः ॥१॥" किंभूतोऽसावनुशासक इत्याह-वसु-द्रव्यं स च मोक्षं प्रति प्रवृत्तस्य संयमः तद्विद्यते यस्यासौ वसुमान् , पूजनं-देवादिकृतमशोकादिकमाखादयति-उपभुत इति पूजनास्वादकः, ननु चाधाकर्मणो देवादिकृतस्य समवसरणादेरुपभोगात्कथमसौ सत्संयमवानित्याशङ्याह-न विद्यते आशयः-पूजाभिप्रायो यस्खासावनाशयः, यदिवा द्रव्यतो विद्यमानेऽपि समवसरणादिके भाव तोऽनाखादकोऽसौ, तद्गतगााभावात् , सत्यप्युपभोगे 'यतः' प्रयतः सत्संयमवानेवासावेकान्तेन संयमपरायणखात् , कुतो? यत KO इन्द्रियनोइन्द्रियाभ्यां दान्तः, एतद्गुणोऽपि कथमित्याह-दृढः संयमे, आरतम्-उपरतमपगतं मैथुनं यस्य स आरतमैथुन:-अपगते च्छामदनकामः, इच्छामदनकामाभावाच संयमे दृढोऽसौ भवति, आयतचारित्रखाच्च दान्तोऽसौ भवति, इन्द्रियनोइन्द्रियदमाञ्च प्रयतः, प्रयत्नवत्वाच्च देवादिपूजनानाखादकः, तदनाखादनाच सत्यपि द्रव्यतः परिभोगे सत्संयमवानेवासाविति ॥ ११॥ अथ ASSO929 For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy