________________
Shri Mahaviradhana Kendra
सूत्रकृताङ्ग शीलाङ्काचार्ययवृत्तियुतं
॥२४४॥
www.kobatirth.org
Acharya Shri Kailashsa Gyanmandir
| समित्याद्युपेतेन यद्विधेयं तद्दर्शयितुमाह - 'शब्दान्न' वेणुवीणादिकान् मधुरान् श्रुतिपेशलान् 'श्रुत्वा' समाकर्ण्याथवा 'भैर| वान्' भयावहान् कर्णकटूनाकर्ण्य शब्दान् आश्रवति तान् शोभनत्वेनाशोभनलेन वा गृह्णातीत्याश्रवो नाश्रवोऽनाश्रवः तेष्वनुकू| लेषु प्रतिकूलेषु श्रवणपथमुपगतेषु शब्देष्वनाश्रवो - मध्यस्थो रागद्वेषरहितो भूला परि-समन्ताद् व्रजेत् परिव्रजेत् संयमानुष्ठायी |भवेत्, तथा 'निद्रां च' निद्राप्रमादं च 'भिक्षुः' सत्साधुः प्रमादाङ्गलान कुर्यात्, एतदुक्तं भवति — शब्दाश्रवनिरोधेन विषयप्रमादो निषिद्धो निद्रानिरोधेन च निद्राप्रमादः, चशब्दादन्यमपि प्रमादं विकथाकपायादिकं न विदध्यात् । तदेवं गुरुकुलवासात् स्थानशयनासन समिति गुप्तिष्वागतप्रज्ञः प्रतिषिद्धसर्वप्रमादः सन् गुरोरुपदेशादेव कथंकथमपि विचिकित्सां - चित्तविप्लुति| रूपां [वि]तीर्णः - अतिक्रान्तो भवति, यदिवा मगृहीतोऽयं पञ्चमहाव्रतभारोऽतिदुर्वहः कथं कथमप्यन्तं गच्छेद् ?, इत्येवंभूतां | विचिकित्सां गुरुप्रसादाद्वितीर्णो भवति, अथवा यां काश्चिच्चित्तविप्लुतिं देशसर्वगतां तां कृत्स्नां गुर्वन्तिके वसन् वितीर्णो भवति अन्येषामपि तदपनयनसमर्थः स्यादिति ॥ ६ ॥ किञ्चान्यत् स गुर्वन्तिके निवसन् कचित् प्रमादस्खलितः सन् वयःपर्या| याभ्यां क्षुल्लकेन - लघुना 'चोदितः' प्रमादाचरणं प्रति निषिद्ध:, तथा 'वृद्धेन वा' वयोऽधिकेन श्रुताधिकेन वा 'अनुशा - सितः' अभिहितः, तद्यथा - भवद्विधानामिदमीदृक् प्रमादाचरणमासेवितुमयुक्तं, तथा 'रत्नाधिकेन वा' प्रव्रज्यापर्यायाधिकेन | श्रुताधिकेन वा समवयसा वा 'अनुशासितः' प्रमादस्खलिताचरणं प्रति चोदितः कुप्यति यथा अहमप्यनेन द्रमकप्रायेणोत्त| मकुलप्रभूतः सर्वजनसंमत इत्येवं चोदित इत्येवमनुशास्यमानो न मिथ्यादुष्कृतं ददाति न सम्यगुत्थानेनोत्तिष्ठति नापि तदनुशासनं सम्यक् स्थिरतः - अपुनःकरणतयाऽभिगच्छेत्-प्रतिपद्येत, चोदितश्च प्रतिचोदयेद्, असम्यक् प्रतिपद्यमानश्वासौ संसारस्रोतसा
For Private And Personal
१४ ग्रन्थाध्ययनं •
॥२४४॥