________________
Shri Man
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailas
Gyanmandir
अथ त्रयोदशं श्रीयाथातथ्याध्ययनं प्रारभ्यते ॥
समाप्तं समवसरणाख्यं द्वादशमध्ययनं, तदनन्तरं त्रयोदशमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने परवादिमतानि निरूपितानि तन्निराकरणं चाकारि, तच्च याथातथ्येन भवति, तदिह प्रतिपाद्यते इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-शिष्यगुणदीपना, अन्यच्च-अनन्तराध्ययनेषु धर्मसमाधिमार्गसमवसरणाख्येषु यदवितथं याथातथ्येन व्यवस्थितं यच्च विपरीतं वितथं तदपि लेशतोत्र प्रतिपादयिष्यत इति ।
नामनिष्पनेतु निक्षेपे याथातथ्यमिति नाम, तदधिकृत्य नियुक्तिकृदाहISणामतहं ठवणतहं दद्वतहं चेव होइ भावतहं । व्वतहं पुण जो जस्स सभावो होति दब्वस्स ॥ १२२ ॥ II भावतहं पुण नियमा णायव्वं छविहंमि भावंमि । अहवाऽवि नाणदंसणचरित्तविणएण अज्झप्पे ॥ १२३ ॥ ISजह सुत्तं तह अत्थो चरणं चारो तहत्ति णायव्वं । संतंमि [य] पसंसाए असती पगयं दुगुंछाए ॥ १२४ ॥ ॥ आयरियपरंपरएण आगयं जो उ छेयबुद्धीए। कोवेइ छेयवाई जमालिनासं स णासिहिति ॥ १२५ ॥
ण करेति दुक्खमोक्खं उज्जममाणोऽवि संजमतवेसुं। तम्हा अनुकरिसो वजेअव्वो जतिजणेणं ॥१२६ ॥
For Private And Personal