________________
Shri Mahavir
Aadhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagaldanmandir
न्ति । अनुविचिन्त्य भाषणं यतो ज्ञाने सति भवति, तत्पूर्वकत्वाच सत्यवादस्य, अतो ज्ञानानभ्युपगमादनुविचिन्त्य भाषणाभावः, तदभावाच तेषां मृषावादित्वमिति ॥२॥ साम्प्रतं वैनयिकवादं निराचिकीर्षुः प्रक्रमते-सयो हितं 'सत्यं परमार्थो यथावस्थितपदार्थनिरूपणं वा मोक्षो वा तदपायभूतो वा संयमः सत्यं तदसत्यम् 'इति' एवं 'विचिन्तयन्तो मन्यमानाः, एवमसत्यमपि सत्यमिति मन्यमानाः, तथाहि-सम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गः सत्यस्तमसत्यत्वेन चिन्तयन्तो विनयादेव मोक्ष इत्येतद| सत्यमपि सत्यत्वेन मन्यमानाः, तथा असाधुमप्पविशिष्टकर्मकारिणं वन्दनादिकया विनयप्रतिपत्त्या साधुम् 'इति' एवम् 'उदा
हरन्तः' प्रतिपादयन्तो न सम्यग्यथावस्थितधर्मस्य परीक्षकाः, युक्तिविकलं विनयादेव धर्म इत्येवमभ्युपगमात् , क एते इत्येतदा18 ह-ये 'इमें' बुद्ध्या प्रत्यक्षासन्नीकृता 'जना इव' प्राकृतपुरुषा इव जना विनयेन चरन्ति वैनयिका-विनयादेव केवलात्स्व-18
गेमोक्षावाप्तिरित्येवंवादिनः 'अनेके बहवो द्वात्रिंशद्भेदभिन्नत्वात्तेषां, ते च विनयंचारिणः केनचिद्धर्मार्थिना पृष्टाः सन्तोऽपिशब्दादपृष्टा वा 'भावं' परमार्थ यथार्थोपलब्धं वाभिप्राय वा विनयादेव वर्गमोक्षावाप्तिरित्येवं 'व्यनैषुः' विनीतवन्तःसर्वदा सर्वस्य सर्वसिद्धये विनयं ग्राहितवन्तः, नामशब्दः संभावनायां, संभाव्यत एव विनयात्स्वकार्यसिद्धिरिति, तदुक्तम्"तस्मात्कल्याणानां सर्वेषां भाजनं विनय" इति ॥३॥ किंचान्यत्-संख्यानं संख्या–परिच्छेदः उप-सामीप्येन |संख्या उपसंख्या-सम्यग्यथावस्थितार्थपरिज्ञानं नोपसंख्याऽनुपसंख्या तयाऽनुपसंख्यया-अपरिज्ञानेन व्यामूढमतयस्ते वैनयिकाः खाग्रह ग्रस्ता इति एतद्-यथा विनयादेव केवलात्स्वर्गमोक्षावाप्तिरित्युदाहृतवन्तः, एतच ते महामोहाच्छा१ समुचयार्थलात्तच्छब्देनानुविचिन्व भाषणपरामर्शः । २ ०कारिणः । ३ लम्भं प्र० ।
Keeeeeeeeeeeeeeee
Tag2020020200000000000202000
For Private And Personal